पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० प्रबोधचन्द्रोदयम् नो चेत्सन्तु कृपाणदारितभवत्प्रत्यङ्गधाराक्षर- द्रक्तस्फीतविदीर्णवऋविसरफेडारिणः [पञ्चमोऽङ्कः फेरवाः ॥ ५॥ - क्त्रेभ्यो विसरन्ति निर्गच्छन्ति फेङ्कारा ध्वनिविशेषा येषां सन्तीति फेङ्कारिणः । फेरवाः शिवाः । फे इति रवो येषां ते फेरवा इति व्युत्पत्तिः । अनेन विवेका न्महामोहपलायनेन बीजक्षेपादाक्षेपो नाम गर्भसन्धेर्द्वादशमङ्गम् । तल्लक्षणं तु - ‘आक्षेपो बीजयोजनम्’ इति । अत्र महामोहविवेकयोर्युद्धमभिनेतव्यं न भव- तीति कथाक्षेपेण तद्वृत्तान्तः कथितः । तथा चोक्तं सरस्वतीविलासे– 'विरसो- ऽनुचितश्चेति सूच्यः स्याद्वस्तुबिस्तरः ।' बिरसो नाम प्रधानरसपोषकादिभावशून्यः कथासंघट्टनमात्र प्रयोजनो विष्कम्भादिरुच्यते । अनुचितो नाम रत्नस्थलप्रयोगा- नहीं युद्धवधबन्धस्थानभोजनादिरुच्यते । तथा चोक्तम् – 'युद्धाध्ववधवन्धांच राज्यदेशादिविष्ठवान् । संरोधसुरतस्नानभोजनं चानुलेपनम् ॥ अम्बरग्रहणादीनि प्रत्यक्षाणि न निर्दिशेत् ॥' एतान्युद्वेगकारित्वात्प्रयोगानुचितानीति साङ्गो गर्भस- न्धिर्निरूपितः । इतः परं विमर्शसन्धिः प्रस्तूयते – 'यत्रावमर्श्यते क्रोधाद्व्यसनाद्वा विमोहनात् । गर्भनिर्भिन्नबीजार्थः सोऽवमर्श इति स्मृतः ॥' यत्र प्रकरीनियता- प्तिसमन्वयरूपे सन्धौ गर्भनिर्भिन्नो गर्भान्निभिन्न आक्षेपनामकेनाङ्गेन निर्भिन्नोऽव- मृष्टो यस्मिन्संधौ आनन्दसान्द्रलमा वहति नियतनिर्निबन्धनाया आक्षेपेण निर्भि- नत्वाद्गर्भनिर्भिन्नो बीजार्थो विमर्शसन्धावित्यनुसंधेयम् । यत्र बीजार्थः क्रोधा- यसनाल्लोभाद्वावमृदयते स सन्धिरवमर्शसन्धिरित्युच्यते । अत्र क्रोधादवमर्यंत इति ध्येयम् । प्रकरीलक्षणं गर्भसन्धावुक्तम् । नियताप्तिर्नाम- 'अपायाभावतः प्राप्तेर्नियताप्तिः सुनिश्चिता' इति । एवं नियताप्तिप्रकर्योः संबन्धाद्विमर्शसंधिरु- त्पद्यते विकटललाटेयारभ्य सहजानन्दसान्द्रत्वमात्मनो ज्ञेयम् । तेन नियताप्ति- रुक्ता । अनयोः संधानार्थं त्रयोदशाङ्गानि निरूपणीयानि । तानि च - 'अपवा- दश्च संभेदो विद्रवद्रवशक्तयः । द्युतिः प्रसङ्गइछलनं व्यवसायो निरोधनम् || - सानुगोऽनुगैः कामक्रोधादिभिः सह म्लेच्छान्म्लेच्छदेशान्त्रजेत् गच्छतु । किं कृत्वा । विष्णोरायतनानि सानानि शालग्रामक्षेत्राणि, सरितां गङ्गादीनां कुलानि तीराणि, पुण्याः पावना अरण्यस्थली नैमिषारण्यभूमी: पुण्यकृतां याशिकानां मनांस्यपास्य परित्यज्येति सर्वत्र संबध्यते । नो चेन्न गच्छसि चेत् फेत्कारिणः फेल्कारशब्दयुक्ताः फेरवा: सृगाला: कृपाणेन खङ्गेन दारितं छिन्नं भवतो यत्प्रत्यङ्गं तस्माद्धारया क्षर- निर्गच्छद्यद्द्रक्तं तेन स्फीतानि दीप्तानि वक्राणां विवराणि छिद्राणि येषां तादृशाः १ 'वऋविवराः फेत्कारिणः' इति पाठः ।