पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[पञ्चमोऽङ्कः १६८ प्रबोधचन्द्रोदयम् विशेषतश्च श्रद्धायाश्चिरमनागमनं मनसि संदेहमारोपयति । श्रद्धा – ( उपसल ।) भगवति, प्रणमामि । विष्णुभक्तिः– श्रद्धे, खागतम् । - श्रद्धा – देव्याः प्रसादेन । - शान्तिः— अम्च, प्रणमामि । श्रद्धा — पुत्रि, मां परिप्वजख । शान्तिः– (तथा करोति ।) श्रद्धा – वत्से, देव्या विष्णुभक्तेः प्रसादान्मुनिजनचेतः पदं प्रामुहि । विष्णुभक्ति: – अथ तत्र किं वृत्तम् । श्रद्धा – यद्देव्याः प्रतिकूलमाचरतामुचितम् । विष्णुभक्तिः–तद्विस्तरेणावेदय । श्रद्धा – आकर्णयतु भवती । देव्यागादिकेशवाय तनादपत्रा- न्तायामेव किंचिदुत्सृष्टपाटलिम्नि भगवति भास्वति, विजयघोषणा- हूयमानानेकवरवीरबहुलतरसिंहनादबधिरितदिगन्ते संततरथतुरङ्ग- खुरखण्डितभूमण्डलोच्छलद्विपुलरजःपटलान्तरितकिरणमालिनि म- ऽत्यर्थम् । अनैतस्मिन् । महावीरवरसङ्ग्रामे बलवता महामोहेनाभियुक्तस्य वत्सस्य विवेकस्य कीदृशो वृत्तान्त इति न जानामि । दुःस्थितं मे हृदयमित्यनेन शङ्कात्रासयोः प्रतीतेः संभ्रमाख्यं गर्भसन्धेरङ्गम् । लक्षणं तु 'शङ्कात्रासौ च संभ्रमः' इति । किंचिदिति । किंचिदुत्सृष्टपाटलिम्नि ईषन्मृष्टपाटलवर्णे भा- स्वति सूर्यदेवे सति । सूर्योदयवेलायामित्यर्थः । विजयघोषणाभिर्विजयशब्दा- दिध्वनिभिराहूयमाना अनेके वरवीरा योद्धृप्रधानरूपास्तेषां बहुलतरसिंहनादैव- चिरितमन्तरालं यस्य तस्मिन् । संततेति । काशीरजःपटल पिहितसूर्यमण्डले प्रायो बाहुल्येनाभ्युदयो भाग्योत्कर्षः प्रमाणाद्धर्मपक्षपातित्वावधार्यते तथापि काम- मत्यर्थ सुहृदां मानसमनिष्टाशकि । अनर्थाशङ्कीत्यर्थः ॥ ४ ॥ देव्या विष्णुभक्तेः । विशेषत इत्यादि विष्णुभक्तेरित्यन्तं सुगमम् । चेतः पदमन्तःकरणरूपं स्थानम् । मोहविवेकयोः संग्राममनुवर्णयिष्यन् विष्णुभक्तिश्रद्धयोः प्रश्नोत्तरे अवतारयति — अथ तन्त्रेति । देव्यां विष्णुभक्तौ । आदिकेशवायतनाङ्गङ्गावरुणासंगमादपक्रान्तायां चक्रतीर्थ प्रति गतायामेव भगवति भास्वत्यतिसमर्थे श्रीसूर्ये । कीदृशे भास्वति ।