पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् १६७ तचक्रतीर्थम् । यत्रासौ संसारसागरोत्तारतरणिकर्णधारो भगवान्हरिः स्वयं प्रतिवसति । ( प्रणम्य ।) इयं च महामुनिभिरुपास्यमाना भग- वती विष्णुभक्तिः शान्त्या सह किमपि मन्त्रयते । यावदुपसर्पामि । ( इति परिक्रामति । ) (ततः प्रविशति विष्णुभक्तिः शान्तिश्च ।) शान्तिः— देवि, प्रबलचिन्ताकुलहृदयामिव भवतीमालो- कयामि । = विष्णुभक्तिः– वत्से, एतस्मिन्वीरवरक्षये महति सांपराये जाते न जाने बलवता महामोहेनाभियुक्तस्य वत्सविवेकस्य कीदृशो वृत्तान्त इति दुःस्थितमिव मे हृदयम् । शान्तिः– किमत्र विचिन्त्यते । ननु भगवती चेत्कृतानुग्रहा तन्नियतमेव राज्ञो विवेकस्य विजय इति जानामि । विष्णुभक्तिः–वत्से, यदप्यभ्युदयः प्रायः प्रमाणादवधार्यते । कामं तथापि सुहृदामनिष्टाशङ्कि मानसम् ॥ ४ ॥ इकारस्य पकारः । जनयतीत्यर्थः । यावदुपसर्पाम्युपसर्पिष्यामि । ‘यावत्पुरानि- पातयोर्लट्' इति भविष्यति लट् ॥ – विवेकस्येति । अचिरोत्पन्नत्वाद्वात्सल्या- तिशयाच्च वत्सात्वनिर्देशः ॥ यदपीति । यदपि यद्यपीत्यर्थः ॥ ४ ॥ प्रायो- आवेदयाम्यावेदविष्यामि । यनेति । यत्र चक्रतीर्थे संसारसागरस्योत्तारे पारगमने तरणिनका । 'स्त्रियां नौस्तरणिस्तरिः' इत्यमरः । ज्ञानरूपा तस्याः कर्णधारो निया- मकः महामुनिभिनीरदशुकपराशरादिभिरुपास्यमाना सेव्यमाना । उपास्यमाने- त्यनेनेदमुक्तम् । यन्नानाविधा भक्तिरेव परमार्थसाधनम् । उपायान्तरं नास्त्येव कलौ । विक्षिप्तमनसां तु सुतराम् । भक्तयैवानेके संतीणी: । तथोक्तम् 'विष्णोस्तु श्रवणे परीक्षितिरभूद्वैयासकिः कीर्तने प्रहादः स्मरणे तदगिभजने लक्ष्मीः पृथुः पूजने । अक्रूरस्त्वभिबन्दनेऽथ हुनुमान्दास्ये च सख्येऽर्जुनः सर्वस्वात्मनिवेदने बलिरभूत्कै- वल्यमेषां पदम् ॥' इति । सांपराये संग्रामेऽभियुक्तस्य तिरस्कृतस्य दुःखित मित्र सचिन्तमिव मे मम हृदयं मानसम् ॥ नियतमेव निश्चितमेव ॥– यद्यपीति । यद्यपि १ ‘एतस्मिन्महति' इति पाठः | २ 'संपराये न जाने' इति पाठः । ३ 'यद्यप्य- भ्युदयः' इति पाठः ।