पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[प्रथमोऽङ्कः प्रबोधचन्द्रोदयम् प्रत्यग्ज्योतिर्जयति यमिनः स्पष्टलालाटनेत्र- व्याजव्यक्तीकृतमिव जगद्यापि चन्द्रार्धमौलेः ॥ २ ॥ - यथोक्तं भरते संगीतरत्नाकरे च – 'गुदलिङ्गान्तरे चक्रमाधाराख्यं चतुर्दलम् । अस्ति कुण्डलिनी ब्रह्मशक्तिराधारपङ्कजे ॥ आ ब्रह्मरन्ध्रमृजुतां गतेयममृत- प्रदा । स्वाधिष्ठानं लिङ्गमूले षट्दलं चक्रमस्य च ॥ नाभौ दशदलं चक्रं मणिपूर- कसंज्ञकम् | हृदयेऽन चक्रं शिवस्य प्रणवाकृतेः ॥ पूजास्थानं तदिच्छन्ति दलैर्द्वादशभिर्युतम् । कण्ठेऽस्ति भारतीस्थानं विशुद्धिः षोडशच्छदम् ॥ भ्रूमध्ये द्विदलं चक्रमाज्ञासंज्ञं प्रचक्षते । चक्रं सहस्रपत्रं तु ब्रह्मरन्ध्रे सुधाधरम् ॥ द्वाद- शारे स्थितो जीवो गीतादेः सिद्धिमृच्छति । आधाराद्वयङ्गलादूर्ध्वं मेहनाद्भयङ्गु- लादधः ॥ एकाङ्गुलं देहमध्यं तप्तजाम्बूनदप्रभम् । तत्रास्तेऽग्निशिखा तन्वी चक्रात्तस्मान्नवाङ्गुले ॥ देहस्य कन्दोऽस्त्युत्सेधायामाभ्यां चतुरङ्गुलः । तन्मध्ये नाभिचक्रं तु द्वादशारमवस्थितम् ॥ लुतेव तन्तुजालस्था तत्र जीवो भ्रमय- नम् । सुषुन्नया ब्रह्मरन्ध्रमारोहयवरोहति ॥ जीवः प्राणसमारूढो ब्रह्मरन्ध्रं विशत्यसौ । नाडीषु वध्यमानासु मध्यनाडी विशलसौ ॥ सुषुम्ना तिसृषु श्रेष्ठा वैष्णवी मुक्तिमार्गदा ॥” इति । तदेतज्ज्योतिस्तृतीयाक्षव्याजेन जगतां प्रत्यक्षी कृतमित्युत्प्रेक्षा । तादृशं ज्योतिः केन प्रमाणेनावगम्यत इत्याशक्य मनसैवाव - गम्यत इत्याह । स्वान्ते शान्तिप्रणयिनि समुन्मीलत्प्रकाशमानम् । 'मनसैवानु- द्रष्टव्यम्' | 'न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कञ्चनैनम् | हृदा म नीषी मनसाभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति ॥ इति श्रुतिभ्यश्च । तत्की- दशमियाह – आनन्दसान्द्रमिति | प्रत्यग्ज्योतिः प्रत्यगात्मस्वरूपं ज्योतिस्तेजो- रूपं जयति सर्वोत्कर्षेण वर्तते । यमिनः परमेश्वरस्य प्रत्यग्ज्योतिर्ललाटनेत्रव्या- जेन सर्वलोकप्रत्यक्षं भवतीति जयतेरर्थः । तेन तज्ज्योतिरुपास्मह इति वा- क्यार्थः संपन्न इत्यनुसंधेयम् । यमिनः स्वभावतो यमादिगुणसंपन्नस्य | नित्य- योगे मत्वर्थीय इनिः । स्पष्टलालाटनेत्र व्याजव्यक्तीकृतमिव । स्पष्टं सदिति विधेय- विशेषणं वा । स्पष्टं यथा भवति तथा ललाटस्थितं लालाटं तच नेत्रं तस्य । - । यति प्रकाशते । तत्प्रत्यक् तच्च ज्योतिश्च प्रकाशरूपं जयति । जयः सर्वोत्कर्षः । अन्यनिरपेक्षतेत्यर्थः । कीदृशं प्रलग्ज्योतिः । अन्तर्नाड्यां सुषुम्नायां नियमितः संनिरुद्धश्चासौ मरुच्च तेन लङ्गितमुहङ्गितं ब्रह्मरन्धं येन तत् । कस्मिन्सति । स्वान्ते अन्तःकरणे शान्तिप्रणयिनि उपशमं गते सति । पुनः कीदृशं ज्योतिः सनुन्मीलत्प्रकटीभवन्नानन्द: सुखं तेन सान्द्रमभिन्नं स्वप्रकाशसुखाभिन्नमित्यर्थः कीदृशस्य चन्द्रार्थमौलेः । यमिनः यमोऽस्यास्तीति यमी तस्य | योगासक्तस्येत्यर्थः । 1