पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१] अपिच चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् अन्तर्नाडीनियमितमरुल्लङ्घितब्रह्मरन्धं खान्ते शान्तिप्रणयिनि समुन्मीलदानन्दसान्द्रम् । अविद्यानिवृत्तिः फलमिति | मैवम् । अस्य रूपकस्य नाटकभूमिकवेदान्तशास्त्ररू. पवादविद्यानिवृत्त्यानन्दावाप्तिरूपप्रयोजनद्वयनिर्देशः । अत्रेदमुपसंहरति — अस्मिन्नाटके मुखप्रतिमुखसंधिषु रामायणादिष्विव चित्रतुरगादिप्रतिपत्तितुल्यप्र- तिपत्त्या काव्यश्रवणानन्तरं विभावाद्यनुसंधानवतां सचेतसां समनन्तरमेव रसा- स्वादसमुद्भूतो विगलितवेद्यान्तर आनन्द उदेति । निर्वहणसंधौ विगलितवेद्या- न्तरः साक्षाद्ब्रह्मानन्द एव । अतस्त्वत्र पञ्चमाङ्कपर्यन्तमारोपितविषयजन्य आनन्दः । षष्टाङ्केतु स्वरूपानन्द एव । अविद्यानिवृत्तिरपि स्वरूपानन्द एवेति वक्ष्यत इति न काचित्क्षतिः । ननु नाटके शान्तरसस्य निर्विकारत्वाद्विभावादि- गम्यत्वाभावान्न प्राधान्यम्, अतः स्वरूपानन्दो नाटकाभिव्यक्क्यो न भवती- ति चेत् । मैवम् । शान्तरसोऽपि विभावानुभावव्यभिचारिसंयोग निष्पन्नः, अतः प्रधानतया नाटके प्रतिपाद्यस्य शान्तरसस्य प्राधान्यं तद्विरुद्धै रौद्रादिरसै- नीपनीयते । अङ्गाङ्गिभावेन निबन्धनात् । यथोक्तं ध्वनिकृता – 'अविरोधी वि रोधी वा रसोऽङ्गिनि रसान्तरे । परिपोषं च नेतव्यो यथा स्यादविरोधिता ॥' इति । एतच पुरंस्तान्नाटकान्ते सम्यतिरूपयिष्यामः । उपास्मह इत्यनेनाधिका- रिणः सूचिताः ॥ १ ॥ आत्मतुष्ट्यधीनत्वान्मङ्गलाचरणस्य पुनरपि मङ्गलान्त- रमारभते – अन्तर्नाडीनियमितेत्यादि । नाङ्य इडापिङ्गलाद्यास्तासामन्तः नाडीनां द्वारेषु नियमितो निरुद्धो मरुद्वायुः । सुषुम्नाप्रविष्ट इति यावत् । य- द्वान्तर्नाच्यां सुषुम्नायां नियमितो नियमेनेतरनाडीद्वारनिरोधेन सुषुम्नां प्रवेशितः तेन सार्धं लचितमतिक्रान्तं ब्रह्मरन्धं सहस्रकमलद्वारं येन प्रत्यग्ज्योतिषा तत् । निमीलति नश्यति । आत्मस्वरूपातिरिक्तं न भवति । ब्रह्मस्वरूपेण तिष्ठतीत्यर्थः । तत्र दृष्टान्त: । स्रग्भोगिभोगोपमम् । सजि मालायामुत्पन्नो यो भोगिभोगः सर्पदेह- स्तनोपमेयम् । तथाचायमर्थः । मालातत्त्वसाक्षात्काराभिन्नः सर्पदेहो न भवति किंतु तत्स्वरूपेणावतिष्ठते । एवं ब्रह्माद्वैतसाक्षात्कारात्स्वरूपातिरिक्तरूपेण प्रपञ्चो न तिष्ठतीति । एवं च सति अज्ञाननिवृत्तिः प्रयोजनम् । प्रयोजनकामोऽधिकारी । प्रति- पाद्यप्रतिपादकभावः संवन्ध: । ऐक्यमभिधेयमित्यादि प्रदर्शितम् ॥ १ ॥ --अपि- चेति । प्राक्तनमङ्गलसमुच्चयार्थोऽपिचशब्दः ॥ – अन्तरिति । चन्द्रार्धनौलेश्चन्द्रशे- खरस्य प्रत्यग्ज्योतिर्जडानृताहंकारादिभ्यः प्रातिकूल्येन सत्यज्ञानानन्दादिरूपत्वेना- - -