पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् [तृतीयोऽङ्कः शुत्वमनयोर्नाद्याप्यपनीयते । तेनास्मद्वदनसंसर्गदोषादपवित्रां सुरामे- तौ मन्येते । तद्भवती स्ववकासवपूतां कृत्वाऽनयोरुपनयतु । यत- स्तैथिका अपि वदन्ति 'स्त्रीमुखं तु सदा शुचि' इति । - श्रद्धा – *जं भैअवं आणवेदि। (पानपात्रं गृहीत्वा पीतशेषमुपनयति) भिक्षुः – महाप्रसादः (इति चषकं गृहीत्वापियति ।) अहो सुरायाः सौन्दर्यम् । निपीता वेश्याभिः सह न कतिवारान्सुवदना - मुखोच्छिष्टास्माभिर्विकचबकुलामोदमधुरा । कपालिन्या वक्रासवसुरभिमेतां तु मदिरा- मलब्धां जानीमः स्पृहयति सुधायै सुरगणः ॥ २१ ॥ क्षपणक: – अले भिक्खुअ, मा सव्वं पिव । कौवालिणी- चञणोच्छिट्टं मइलं मदत्थंवि धालेसु । - १२२

  • यद्भगवानाज्ञापयति ।

+ अरे भिक्षो मा सर्वे पिब । कापालिनीवदनोच्छिष्टां मदिरां म दर्थमपि धारय । अद्याप्यनुभूतभवदालिङ्गनसुखयोरपि पशुत्वं नापनीयते । कर्मकर्तरि यक् । अहो सुरायाः सौन्दर्यं स्वादुत्वम् ॥ – निपीतेत्यादि । वक्रासवेन गण्डूपमद्येन सुरभि घ्राणतर्पणां मदिरामलब्ध्वाऽप्राप्यैव सुरगणः सुधायै स्पृहयतीति जा- - मृपसि किं विचारयसि । पशुत्वं मूर्खत्वमपनीयते दूरीक्रियते, स्ववक्त्रे आसवं मद्यं तेन पूतां पवित्रां कृत्वा उपनयतु समीपे प्रापयतु । तैथिंका: सार्ताः । [ श्रद्धा – य द्भवानाज्ञापयतीति । ] चपकं पानपात्रम् | अहो इति । सुराया माधुर्यमिति वक्तव्ये सौन्दर्यमिति वदन् मत्तः प्रलपतीति भावः ॥ - निपीतेति । अस्माभिवेश्याभिः सह कतिवारान्वासरान् । सुरेत्यध्याहारः । न पीता | बहुधा पीतैवेत्यर्थः । कीदृशी सुरा। सुवदनानां सुमुखीनां मुखैरुच्छिष्टा पीतशेपा । पुनः कीदृशी सुरा | विकचं विकसितं यद्व- कुलं तस्यामोदेन परिमलेन मधुरा मिष्टा | ततः किं तत्राह | सुरगण: देवगणः एतां सुरामलब्ध्वा सुधायै सहयतीच्छति इति जानीम: । कीदृशीं सुराम् । कपालिन्या: १ 'भवं आणवेदि त्ति' इति पाठः । धालेसु' इति पाठः | ३ 'ममवि' इति पाठः । २ 'कावालिणीवदनसलसं मदिलं मंवि