पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् कापालिकः – उपविश्यताम् । - १२१ (उभौ तथा कुरुतः ।) - (कापालिको भाजनं समादाय ध्यानं नाटयति ।) श्रद्धा – *भअवं, सुलाए पूलितं भाअणम् । कापालिकः–(पीत्वों शेषं भिक्षुक्षपणकयोरर्पयति ।) इदं पवित्रममृतं पीयतां भवभेषजम् । पशुपाशसमुच्छेदकारणं भैरवोदितम् ॥ २० ॥ (उभौ विभृशतः ।) क्षपणकः – अह्माणं अलिहन्ताणुसासणे सुलापाणं णत्थि । "भिक्षुः कथं कापालिकोच्छिष्टां सुरां पास्यामि । कापालिकः – (विटश्य जनान्तिकम् ) किं विमृशसि श्रद्धे, प-

  • भगवन्, सुरया पूरितं भाजनम् ।

† अस्माकमार्हतानुशांसने सुरापानं नास्ति । कापालिक इत्यादि नाटयतीत्यन्तं सुगमम् । श्रद्धा कापालिनी ॥ इदं पवित्र- मिति । इदं पीतशेषं सुराद्रव्यं पवित्रं स्वयमपि शुद्धमन्यानपि शोधयति । जरामरणयोर्नाशहेतुः । भवभेषजं भवस्य संसारस्य भेषजमौषधमाध्यात्मिकादि- तापत्रयनिवारकम् । पशुपाशसमुच्छेदकारणम् । 'पश बन्धने' इत्यस्माद्धातोः पशुपाशशब्दौ निष्पन्नौ । पशुर्वद्धो जीवस्तस्य पाशो बन्धस्तत्समुच्छेदस्यात्यन्तिक- विनाशस्य कारणं हेतुः । मुक्तिकारणमित्यर्थः । भैरवोदितं भैरवेण सर्वज्ञेनोदित- मुपदिष्टम् । सुराद्रव्यं पातव्यमित्यर्थः ॥ २० ॥ उभौ क्षपकमिक्षू । श्रद्धे इत्यादि । श्रावकी । अहो कापालिकैकं दर्शनं सौख्यमोक्षसाधनम् । भो आचार्य, अहं तब किंकर: सांप्रतं स॑वृत्त: । मामपि भैरवानुशासने दीक्षख ध्यानेन । ] कुरङ्गो मृगः | भावकी श्रद्धावती । श्रावकी क्षपणकगोष्टी । अस्यार्थ: । हे कापालिनि, त्वं श्रद्धावती सती यदि रमयसे तर्हि क्षपणकसमुदायः किं करिष्यतीति पदसमुदायार्थ: । उभौ भिक्षुक्षपणकौ । [ श्रद्धा — भगवन् पूरितं सुरया भाजनम् । ] भाजनं सुरापानपात्रम् | अर्पणे मन्त्रं पठति – इदमिति । भवस्य संसारस्य निवृत्तौ भेषजमिदं भैरवेणोदितं प्रोक्तम् । प शूनां जीवानां पाशः संसारजनिका या वासनास्तासां समुच्छेदे नाशे कारणम् । इतरत्सुगमम् ॥ २० ॥ [क्षेप - अस्माकम ईदनुशासने सुरापानं नास्ति । ] किं वि , १ 'भअवं पूरिदं सुराए' इति पाठः | २ 'विलोक्य पीत्वा' इति पाठः ।