पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीः । श्रीमन्महानुभावकृष्ण मिश्रयतिप्रणीतं श्रीनगर प्रबोधचन्द्रोदयम् । m नाण्डिल्लगोपप्रभु विरचितया चन्द्रिकाख्यटीकया प्रकाशाख्यटीकया च संवलितम् । प्रथमोऽङ्कः १ मध्याहार्कमरीचिकाखिव पयःपूरो यदज्ञानतः खं वायुर्ज्वलनो जलं क्षितिरिति त्रैलोक्यमुन्मीलति । चन्द्रिकाव्याख्या | श्रीरामचन्द्रः श्रियमातनोतु सीतासहायो मुनिधर्मपत्न्याः । यस्याङ्घ्रिपङ्केरुहरेणुरासीदश्मत्रतोद्यापनकर्महेतुः ॥ अस्ति प्रशस्त महिमा नरसिंहसूनुः श्रीकृष्णरायनृपतिर्नृपसार्वभौमः । यस्योद्धता समरसीनि कृपाणवल्ली दूतीभवयमरलोकविलासिनीनाम् ॥ नास्तं याति सदोदयाद्रिशिखरे तिष्ठत्यरिक्ष्माभृतां 'हस्तान्जानि निमीलयलगणयँल्लोकान्समाक्रामति । तापं छत्रवतामहर्निशमतीवापादयत्यद्भुतं श्रीकण्ठेश्वरकृष्णरायनृपतेस्तीव्र प्रतापांशुमान् ॥ प्रतापरुद्रस्य गजेश्वरस्य पुत्रीं पवित्रीकृतभूतधात्रीम् । प्रत्यग्रहीद्यः प्रकटप्रतापो भद्रां सुभद्रामिव पाण्डवेयः ॥ तस्य श्रीकृष्णरायस्य प्राज्यराज्यधुरंधरः । कुलक्रमागतो मन्त्री साल्वतिम्मचमूपतिः ॥ प्रकाशाख्यव्याख्या | श्रीः ॥ [ प्रारिप्सितग्रन्थप्रत्यूहविधाताय शिष्टादृतत्वेनेष्टत्वादादौ नान्दीसंज्ञकं मङ्गलमाचरति–नान्दीखरूपं च – 'नन्दन्ति काव्यानि कवीन्द्रवर्याः कुशीलवाः