पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् १११ तस्माल्लोकद्वयविरुद्धादार्हतमताद्वरं सुगतमतमेव साक्षात्सुखा- वह्मतिरमणीयं पश्यामः । शान्तिः–– सखि, अन्यतो गच्छावः । करुणा — * एवं भोदु । (इति परिक्रामतः ।) शान्तिः– (पुरो विलोक्य ) एष पुरस्तात्सोमसिद्धान्तः । भव- तु । अत्रापि तावदनुसरावः । (ततः प्रविशति कापालिकरूपधारी सोमसिद्धान्तः ।) सोमसिद्धान्तः– (परिक्रम्य)

  • एवं भवतु ।

३] वक्तुं न शक्यत इत्यर्थः ॥ ११ ॥ तस्मादिति | लोकद्वयमागमिकानागंमिक- जनविरुद्धम् । यद्वा लोकद्वयमिहलोकपरलोकौ । इहलोको नास्ति तावत्पिशा- चलात् । परलोको नास्ति सततोर्ध्वगमनरूपक्लेशानुभवात् । ऐहिकामुष्मिकदूर- मार्हतमतमित्यर्थः । एवमार्हता मन्यन्ते । जीवोऽजीवश्चेति द्वौ पदार्थों । जीव- चेतनः शरीरपरिमाणः सावयवः । अत्र जीवः षड्डिधः । अभ्रभूभूधरादिरेकः । आश्रवसंवरणनिर्जरवन्धमोक्षाख्याः पञ्च | आश्रवत्यनेन जीवो विषयेष्विति आश्रव इन्द्रियसंघातः । संवृणोति विवेकमित्यविवेकादिः संवरण: | निःशेषेण जीर्यते- ऽनेन ऴामक्रोधादिः केशोह्रुञ्चनतप्तशिलाधिरोहह्णादिकं ततो निर्जरः । कर्माष्टकेन जन्मपरम्परावन्धः । कर्माष्टकंतु- चत्वारि घातिकर्माणि चत्वारि शुभानि तेभ्योऽ- ष्टाभ्यः कर्मभ्यो विनिर्गतस्य जीवस्य सततोर्ध्वगमनं मुक्तिः । एते च सप्त पदार्थाः सप्तभङ्गीलक्षणेन शास्त्रवादेन समर्थनीयाः । अस्ति बहुवक्तव्यम् ग्रन्थविस्तर- भयान्नेह प्रपञ्च्यते ॥ शान्तिरित्यादि स्पष्टम् ॥ – सोमसिद्धान्त इति । उमया सहितः सोमः सोमो यथा पार्वत्या सह कैलासे मोदते तद्वद्भक्तः पार्व- तीतुल्यकान्तया सहितः सन् ईश्वरवेषधारी कैलासे मोदते सैव मुक्तिः । शरी- रिणोऽपि मुक्तिर्न विरुध्यते तपोमहिन्ना नित्यशरीरावलम्बनात् । औषधादिसेवया वर्तिनो बहिःस्थान्सूर्यादीनैव प्रकाशयेदित्यर्थः । एवं विरुद्धमुपपादयतार्हता भवन्तो वञ्चिता इति भावः ॥ ११ ॥ आर्हतमतदूषणमुपसंहरति–तस्मादिति । लोकद्वय- बिरुद्धादिहलोकपरलोकयोर्विरुद्धाद्दुःखदादिहलोकः सुखरूप: । षोडशवर्षाः स्त्रियश्च न्दनं सुमनसां माला अयमेव स्वर्ग:, इह लोक एव नरकरूपा आधयो व्याधयश्च, एतद्भिन्नलोके प्रमाणाभावादिति भावः । साक्षात्सुखावहं धर्मनिरपेक्षतया सुखजनकम् । १ 'सुगतदर्शनमेव' इति पाठः । २ 'पुरोऽवलोक्य' इति पाठः ।