पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[तृतीयोऽङ्कः ११० प्रबोधचन्द्रोदयम् - क्षपणकः - *गहणक्खत्तचालचन्दसूल्लोपैलाअलुप्पलाहपलम- त्थाण्णाणसंधाणदंसणेण णिलविदं सव्वणंतणं भअवदो अलिहन्तस्स | भिक्षुः – अरे, अनादिप्रवृत्तज्योतिषातीन्द्रियज्ञानेन प्रतारितेन भगवतेदमतिकष्टं व्रतमाश्रितम् । तथाहि — ज्ञातुं वपुः पैरिमितः क्षमते त्रिलोकीं जीवः कथं कथय संगतिमन्तरेण । शक्नोति कुम्भनिहितः सुशिखोऽपि दीपो भावान्प्रकाशयितुमप्युदरे गृहस्य ॥ ११ ॥

  • ग्रहनक्षत्रचारचन्द्रसूर्योपरागलुप्तलाभपरमार्थज्ञानसंधानदर्शनेन

पितं सर्वज्ञत्वं भगवतोऽर्हतः । निरू- प्रमाणमेवेति । तस्मात्, बुद्धागमस्याप्रमाणत्वादिति भावः ॥ १०॥ लुप्तभाव इति । नष्टचिन्तापरमार्थज्ञानं तद्विषयार्थज्ञानम् । भिक्षुरिति । अनादिप्रवृत्तज्योतिषा ज्योतिः शास्त्रेणातीन्द्रियज्ञानेन भूतभविष्यद्विषयसाधनवतार्हता प्रतारितेन भगव- तेदमतिकष्टं व्रतमाश्रितम् । कथं वञ्चित इति भावः ॥ ज्ञातुमित्यादि । वपुः परि- मितः वपुषि गेद्दे परिमितः परिच्छिन्नः । तदेव सदृष्टान्तमाह—शक्नोतीत्यादि । भावान्घटपटादिपदार्थान् ‘अङ्गुष्ठमात्र आत्मा' इत्युक्तं प्राक् । जीवत्रिलोकीं ज्ञातुं संगतिमन्तरेण खान्वयमन्तरेण कथं क्षमते शक्नोति । कथय वद । ब्रह्मणापि करोति । न कोऽपीयर्थः । [क्षप– ग्रहनक्षत्रवारचन्द्रस्योंपरागशुक्रराहुपरमार्थ- ज्ञानसंवाददर्शनेन निरूपितं भगवतः सर्वज्ञत्वमर्हतः ] अरे, अनादीति । अनादि- प्रवृत्तेनानादिसिद्धेन ज्योतिषा ज्योति:शास्त्रेण अतीन्द्रियमिन्द्रियागोचरं यज्ज्ञानं तत्प्रतारितेन भवता कष्टमतिदु:खावहं व्रतमाम् । अङ्गीकृतमित्यर्थः । देहपरि- मितत्वमात्मनो न सर्वज्ञत्वमित्याह तथा हीत्यादिना । ज्ञातुमिति । वपुः परिभितः वपुषा परि समन्तान्मितः शरीरमात्रपरिमाणो जीबो विज्ञानरूपस्त्रिलोकीं ज्ञातुं कथं क्षमत इति कथय । न कथमपि समर्थो भवतीत्यर्थः । त्रिलोक्यज्ञाने हेतुमाह- संगतिमन्तरेणेति । संबन्धं विनेत्यर्थः । तन्मते ज्ञाना दिसंबन्धे मानाभावादिति भावः । उक्तमर्थं दृष्टान्तेन द्रढयति — सुशिखोऽपीति । अपिशव्दात्सुस्नेहोऽपि कुम्भनिहित= कुम्भान्तः क्षिप्तो दीपो गृहस्योदरे मध्ये विद्यमानान्भावान्पदार्थान्प्रकाशयितुं न श क्नोति यथा, तथा स्वप्रकाशोऽप्यात्मा शरीरमध्ये वर्तमान: परिच्छिन्नो भुवनान्तर- १ ‘सुल्लेपलाअसुक्कलाहुपलमत्थण्णाणसंवाददंसणेण पिल्लविदं भअवदो सच्चण्ण- तणं' इति पाठः । २ 'ज्ञानप्रतारितेन' इति पाठः । ३ 'परिमितं' इति पाठः ।