पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८ प्रबोधचन्द्रोदयम् - तथाहि- श्रीदेवी जनकात्मजा दशमुखस्यासीद्गृहे रक्षसो नीता चैव रसातलं भगवती वेदत्रयी दानवैः । गन्धर्वस्य मदालसां च तनयां पातालकेतुश्छला- दैत्येन्द्रोऽपजहार हन्त विषमा वामा विधेर्वृत्तयः ॥ ४ ॥ एवं विधिविलसितमेतदिति संप्रधार्य । तद्भवतु । पाखण्डालये- ष्वेव तावदनुसरावः । करुणा —*सहि, एवं भोदु । (इति परिक्रामतः ।) ( अंग्रतो विलोक्य ) करुणा - (सत्रासम्) सहि, रक्खसो रक्खसो । शान्तिः – कोऽसौ राक्षसः । -

  • सखि, एवं भवतु ।

+ सखि, राक्षसो राक्षसः । [तृतीयोऽङ्कः सर्वैः संभाव्यत एवेयर्थः ॥ - तथाहीत्यादि । श्रीदेवीति । श्रीदेवी सा लक्ष्मीः । अपजहारापहृतवान् । विषमा वामाः । अत्यन्तवका इत्यर्थः । यद्वा विधेर्वृत्तयः स्वभावतो वामा वक्राः । दुष्कृतवशाद्विषमाः । अनुलच्या इत्यर्थः । सखीति । प्रतिकूले विधातरि सर्वमपि संभाव्यत एवेत्याह——–देवी श्रीरिति । हन्त इति दुःखे । विधेर्दैवस्य वृत्तय आचरितरूपा वामा वक्रा: । विषमाः सकललोकविल- क्षणाः । देवी देवतारूपा श्रीः साक्षालक्ष्मीर्जनकस्यात्मसाक्षात्कारवतः कन्यापि रक्षसो दशग्रीवस्य गृह आसीत् । भगवती सर्वानुष्ठानमूलभूता वेदत्रय्येव दानवैर्देयै रसातलं पातालं नीता प्रापिता । चेत्यपरं गन्धर्वस्य मदालसां तनयां कन्यां पातालकेतुसंज्ञो दैलेन्द्र लामिपादपजहार स्वनिकटे नीतवान् । एवं श्रद्धायाः पाखण्डहस्तगमने दैवं मूलमिति भावः ॥४॥ [करुणा – सखि एवं भवतु ।] [करुणा–सखि, राक्षसो , १ 'तथाहि' इति मुद्रितपुस्तके नास्ति । ३ ' एवं विधेत्यतः संप्रधार्येत्यन्तं मुद्रितपुस्तके मुद्रितपुस्तके नास्ति । २ 'देवी श्रीजनकात्मजा' इति पाठः । नास्ति । ४ 'अग्रतो विलोक्य' इति