पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् शान्तिः – सखि, किमन्विष्यते । अन्वेषितैव- नीवाराङ्कितसैकतानि सरितां कूलानि वैखानसै- राक्रान्तानि समिच्चषालचमसव्याप्ता गृहा यज्वनाम् । प्रत्येकं च निरूपिताः प्रतिपदं चत्वार एवाश्रमाः श्रद्धायाः क्वचिदप्यहो खलु मया वार्तापि नाकर्णिता ॥ ३ ॥ - करुणा — *सहि, एव्वं भणामि । जइ सा जेव्व सत्तई सद्धा तदो ताँए ण एरिसीं दुग्गहिं संभावेमि । णं खु तारिसीओ पुण्णमयीओ सदीओ एतारिसीं असंभावणिज्जं विपत्तिं अणुहन्दि । शान्तिः—सखि, किं प्रतिकूले विधातरि न संभाव्यते ।

  • सखि, एवं भणामि । यदि सैव सात्त्विकी श्रद्धा तदा तस्या

नेहशीं दुर्गतिं संभावयामि । न खलु तादृश्यः पुण्यमय्यः सत्य एतादृशी - मसंभावनीयां विपत्तिमनुभवन्ति । तत्सखीत्यारभ्य सास्रमित्यन्तं सुगमम् ॥–नीवाराङ्कितेत्यादि । ऋष्याश्रमाः देवयजनानि ब्रह्मचर्याश्रमादयः श्रद्धाया निवासभूमय इत्यर्थः । निरूपणं मार्गणम् ॥ ३ ॥ सती साध्वी । यदीति असंशये संशयोक्तिः ॥ सखि, किंन्वित्यादि । ज्वलास्तासां कुलं समूहस्तद्वत्कर्णकटूनि । अत एव दुःसहानीत्येतदक्षरविशेषणमिति प्राकृतयोजना । —नीवारेति । हे सखि, मया क्वचिदपि कुत्रापि । अहो इत्याश्चर्ये । श्रद्धाया वार्तापि नाकर्णिता खलु निश्चयेन न श्रुता । क त्वयान्वेषितेत्यपे- क्षायामाह – नीवारेति । नीवाराङ्कित सैकतानि नीवारैररण्यशालिभिरङ्कितानि चिह्नितानि सैकतानि पुलिनानि येषां तानि । तथा वैखानसैर्वानप्रस्थैराक्रा- न्तानि सरितां नदीनां कूलानि तीराणि तान्यन्वेषितानि । पुनः यज्वनां या- शिकानां गृहा: प्रत्येकं समिधः, चषालो यूपकटकः, चमसाः पात्रविशेषास्तैर्व्याप्ता निरूपिता । दृष्टा इत्यर्थः । एवकारोऽप्यर्थे । चत्वारोऽप्याश्रमाः प्रतिपदं प्रति- स्थानं निरूपिता विलोकिताः ॥ ३ ॥ [करुणा – सखि, एवं भणाभि । यदि सैव सात्त्वकी श्रद्धा तदा तस्या नेदृशीं दुर्गति संभावयामि । न खलु तादृश्य: पुण्य- मय्य एतादृशीम संभावनीयां विपत्तिमनुभवन्ति ।] अदृष्टमनुकूलं नास्तीत्याह- १ 'अन्वेषितैव' इति लिखितपुस्तकेऽधिकः पाठः । २ 'ताए एरिसीं' इति पाठः । ३ 'किमु' इति पाठः ।