पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे कर्मणा मनसा वाचा सदा भक्तियुजा गुरुम् । निार्व्याजं पूजयेच्छिष्यो निजकार्यप्रसिद्धये ॥ ५७ ।। लोकोद्वेगकरी या च या च कर्मनिकृन्तनी । स्थित्युच्छेदकरी या च तां गिरं नैव भाषयेत् ।। ५८ ।। रम्यमप्युज्ज्वलमपि मनसोऽपि समीप्सितम् । लोकविद्वेषणं वेधं न गृह्णियात्कदाचन ॥ ५१ ॥ इत्याचारपर: सम्यगाचार्यं यः समर्चयेत् । कृतकृत्यः स वै शिष्यः परत्रेह च नन्दति ॥ ६॥ देवानृषीनपि पितॄनतिस्थस्तथाग्निं नित्योद्यतेन मनसा दिनशोऽर्चयेद्यः । इष्टानवाप्य सकलानिह भोगजाता- न्प्रेत्य प्रयाति परमं पदमादिपुंसः ।। ६१ ॥

इत्थं मूलप्रकृत्यक्षरविकृतिलिपित्रातजातग्रहीर्क्ष क्षेत्राद्याबद्धभूतेन्द्रियगुणरविचन्द्राग्निसंप्रोतरूपैः । मन्त्रैस्तद्देवताभिर्मुनिभिरपि जपध्यानहोमार्चनाभि- स्तन्त्रेऽस्मिन्यन्त्रभेदैरपि कमलज ते दर्शितोऽयं प्रपञ्चः ॥