पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३
प्रथमोऽङ्कः ।

 प्रतीहारी–(क) कहं दाणि णिवेदेमि ।

 यौगन्धरायणः-शृणु ।

पूर्वं तावद् युद्धसम्बद्धदोषाः प्रस्तोतव्या भावनाः संशयानाम् ।
सन्दिग्धेऽर्थे चिन्त्यमाने विनाशे रूढे शोके कार्थतत्त्वं निवेद्यम् ॥ १३ ॥

 प्रतीहारी–(ख) त्तिस्सं । (निष्क्रान्ता।)

 यौगन्धरायणः -“हंसक ! त्वमिदानीं स्वामन किं न गतः ।


 (क) कथमिदानीं निवेदयामि ।

 (ख) ग्रहीष्यामि ।


हसा निवेदने रक्षितं स्यात्, अर्थाद् दुःखं सोढमभ्यनुवत् मोहमुपगच्छेदिस्याभिप्रायः ॥

 कहमित्यादि । मातृहृदयरक्षणानुकूलं निवेदनप्रकारमुपदिशेति प्रक्ष्नाशयः ॥

 पूर्वमिति । संशयानां ‘पुत्रः शत्रुभिः प्रहृतो वा गृहीतो वे’त्यादिसन्देहानाम् । भावनाः उत्पादकाः । युद्धसंबद्धदोषाः युद्धसंभाविता अनर्थाः । पूर्वं तावत् कार्यतत्त्वनिवेदनात् प्रागेव । प्रस्तोतव्याः प्रक्रमणीयाः । प्रस्तावस्य प्रयोजनमाह-अर्थे युद्धप्रविष्टपुत्रक्षेमरूपे जिज्ञासिते वस्तुनि । सन्दिग्धे सति युद्धदोषप्रस्ताबवद्यादत्रभवत्या शङ्किते, ‘शत्रुभि: पुत्रः प्रहृत उत गृहीतो मारितो वे’त्यादिरीत्या संशयिते सतीत्यर्थः । विनाशे चिन्त्यमाने सति, अतिस्नेहस्य पापयाङ्कित्वात् मारणपक्षे उत्कटतया तर्क्यमाणे सति । शोके रूढे सति विनाशचिन्ताजन्ये दु:खे प्रतिष्ठिते सति । कार्यतत्वं कार्यस्य प्रधानार्थस्य तत्त्वं स्वरूपं , ‘गृहीतो भर्ते’त्येतादृशं । निवेद्यम् । तर्कितानर्थश्रवणजन्यं हि दुःखमतर्कितानर्थश्रवणजन्यात् किञ्चित्रञ्च भवतीति , पुत्रग्रहणवार्ताश्रवणदुःखं तन्मरणशङ्कादुः खाद् वरमिति च कुत्वेदृशो निवेदनप्रकारोपदेशो दत्तः ॥१३॥

 घात्तिस्सामिति

 हंसकेत्यादि । स्वामिना , स्कन्धययनमारोप्य नीयमानेन सह । किं न गतः , अर्थाद्बज्जनीम् ॥