पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
प्रतिज्ञायौगन्धरायणे सव्याख्याने

 हंसकः–(क) अय्य ! वयसिदो खु अहं अत्ताणं अणुग्गहिदुं साळङ्कअणेण णिउत्तो --गच्छ , इमं वृत्तन्तं कोसबीए णिवेदेहि त्ति ।

 यौगन्धरायणः—किन्नखल्विदानीं निराशमनुसारं कर्तुकामः , उताहो स्निग्धपुरुषसन्निकर्षं परिहरति ।

 हंसकः--(ख) अहइं ।

 यौगन्धरायणः -स स्वकं विस्मयादात्मानमाविष्करोति, उत सर्वारम्भसिद्धौ रमणीयं भवति । अथ मामन्तरेण स्वामी न किञ्चिदाह ।


 (क) आये । व्यवसितः खल्वहमात्मानमनुग्रहीतुं सालङ्कायनेन नियुक्तः–गच्छेमं वृत्तान्तं कौशाम्ब्यां निवेदयेति ।

 (ख) अथकिम् ।


 अय्येस्यादि। व्यवसित उघुक्तः । अनुग्रहीतुं स्वाभ्यनुगमनेन कृतार्थयितुम् ॥

 नियुक्तवतोऽभिप्रायं विकल्पयति--किन्न्विति । इदानीमिति वाक्यभूषणम् । निराशं निर्गता आशा यस्मात् तं, स्वामिना असंभवधिया अनाशंसितमित्यर्थः । यद्वा स्वाभिसंबन्धिनः कस्यचिदपि साध्याशाबन्धस्य स्वार्थबाधकस्यास्थानमित्यर्थः । अनुसारम् अनुकूलवृर्त्ति त्वामिक्षेमवार्ताप्रेषणात्मिकाम् । कर्तुकामः किन्नुखलु कर्तुमिच्छति किम्, अर्थात् स्वामिप्रीत्यर्थम् । ‘ईदृशेनानुसारेणास्मत्स्वाथीविरोधि न किञ्चित् परस्य समीहितं संपश्स्यते’ इति कृत्वा तस्मिन्ननुसारे किं प्रवृत्त इति भावः । उताहो अथवा। स्निग्धपुरुषसान्निकर्षे स्निग्धस्य भृत्यस्य स्वामिसमीपस्थितिम् । परिहरति , परिहाराभावे हि तन्मुखेन कमपि यत्नं स्वामी स्वमचनाय प्रच्छन्नमारभेतेति ।

 अथकिमिति विकल्पस्याम्युपगमे ॥

 पुनर्विकल्पयति. —-स इति । सः , विस्मयाद् दर्पात् । स्वकं वञ्चकतया कुत्सितं स्वीयम् । आत्मानं बुद्धिम् । आविष्करोति प्रकाशयति । स्वामिवृत्तान्तनिवेदनभङ्गया कौशाम्बीजनेभ्यः स्वबुद्धिसामर्थ्थे प्रकाशयितुमिच्छति किमित्यर्थः । उत अथवा । सर्वारम्भसिद्धौ सर्वविघस्य स्वोद्यमस्य सिद्धौ स्वामिग्रहणरूपफलप्राप्तौ सत्याम् । रमणीयं भवति , ईदृशं रतिस्थानं क्रीडास्थानं प्रवर्तते किम् । अर्थात् साळङ्कथनस्य । स ह्यवाप्तकामः ईदृशत्वामिवार्ताप्रेषणलीलया किं क्रीड-