पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९२
प्रतिज्ञायौगन्धरायणे सव्याख्याने

इति ।

 रुमण्वान्-- वसन्तक ! किमिदानीं चिन्त्यते ।

 विदूषकः-(क) एवं चिन्तेमि महन्तो खु भवदो पयत्तो विवज्जिस्सिदि त्ति ।

 उभौं—न खलु वयं विज्ञातारः ।

 विदूषकः--(ख) अहं पुठमं पच्च भवन्तो ।

 यौगन्धरायणः—अथ किंकृता कार्यविपतिः ।

 विदूषकः-(ग) वच्छराअस्स अत्तकय्यदाए ।


 (क) एवं चिन्तयामि महान् खलु भवतः प्रयत्नो विपत्स्यत इति ।

 (ख) अहं प्रथमं पश्चाद् भवन्तौ ।

 (ग) वत्सराजस्यात्मकार्येतया ।


 इतिशब्दो विज्ञाप्यसमाप्तौ । पुनर्विज्ञाप्यप्रपञ्चसन्देशेन चानेन यः सामथ्यैगम्यः पूर्वविज्ञापितस्यार्थस्याकारःस एवैतदङ्कोपोद्वातेऽस्माभिः प्रदार्शितो वेदितव्यः ॥

 यौगन्धरायणवाक्यश्रवणेन चिन्ताकुलतामिव जनितां वसन्तकस्यालक्ष्याह--- वसन्तकेंत्यादि । चित्यत इत्यस्य स्थाने ‘भवता विचार्यते’ इति कचित् पाठः ॥

 एव्वमित्यादि । विपत्स्यते विफलिष्यति ॥

 नेत्यादि । विज्ञातरः अर्थात् प्रयत्नविपत्ति कारण ॥

 अहमित्यादि । विज्ञातेति विपरिणतमिह संबन्धनीयम् । अहं प्रथमं विज्ञता, पश्चाद् भवन्तौ मन्मुखेन विज्ञातारावित्यर्थः ।

 अथेत्यादि । किंकृता केन हेतुना कृता । कार्यविपत्तिः कार्यस्य स्वामिबन्धमोचनपूर्वककौशाम्बीप्रयाणरूपस्य विपत्तिः विघढना ॥

 बच्छेति । वत्सराजत्य, आत्मकार्यतया आत्मनः आत्मात्रमत्स्य कार्ये यस्य सः आरमकार्यः आत्ममात्रसंबन्धिन्यस्मदगोचरे कस्मािक्ष्चित् कार्ये व्यासक्त इत्यर्थः । तस्य भावस्तत्ता तया हेतुना । ‘अष्णकव्यदाए' इति पाठे अन्यकार्यतयेति च्छाया । अन्यद् आत्ममोचनकौशाम्बीप्रयाणातिरिक्तं कार्ये यस्य तस्य भावस्तत्ता तयेत्यर्य: ॥