पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९१
तृतीयोऽङ्कः ।

सैनाभिर्मनसानुबद्धजघनं कृत्वा जवे वारणं
 सिंहानामसमाप्त एव विरुते त्यक्त्वा सविन्ध्यं वनम् ।
एकाहे व्यसने बने स्वनगरे गत्वा त्रिवर्णां दशां
 येनैव द्विरदच्छलेन नियतस्तेनैव निर्वाह्यते ॥ ५॥


नपरितशरीरेण तेन नादेन अवश्यं श्वः प्रद्योतेन स्वामी शरणमुपगन्तव्यः, सर्वैः साधनैः पूर्वोक्त्तैर्मन्त्रौषधि-धूप-प्रतिगजमदगजशाळासन्नगृहप्रदीपनरूपैर्मोहमदमसरत्रासहेतुभूतैः परि गतशरीरेण परिगतवोष्टतात्मना अर्थात् संयुक्त्तेन तेन नादेन शङ्खदुन्दुभिध्वानेन हेतुना, प्रद्योतेन अवश्यं श्वः स्वामी रक्षकत्वेन प्राप्तव्यः, यथोक्तनादजनितनलागिरिचित्तओभरूपानर्थप्रशमनाय प्रार्थयितव्य इति यावत् । ततः शरणीकरणानन्तरं । शत्रोरनुमतेनैव प्रद्योतस्यभ्यनुज्ञयैव। सइध्यापन्नां स्वामिना सह ग्रहणविपत्तिं प्राप्तां । घोषवर्ती वीणाविशेषम् । स्वाधीनः कर्तव्यः वीणामानेन वश्यः कार्यः ।

 तत इति । वाक्यच्छेदोऽयं क्ष्लोकान्वयी । स्वामी तदानीं यदा नलागिरिः स्वंस्थीभूय वश्यतां गतः तस्मिन् समये । नलागिरौ, व्यवस्थितासनः दृढोपविष्टः सुन् ।

 सेनाभिरिति । वीरणं नगिरिं । जवे बेगे विषये । सेनभिः महासेनसैन्यैः अर्थात् प्रस्थितं स्वामिनमनुधाव्य जिघृक्षुभिः । मनसानुबद्धजंबनं कृत्वा मनसैव न तु देहेनानुसृतपृष्ठं कृत्वा, यथा मनसा सङ्कल्पितमनुसरगं सद्यः काथेन कर्तुं यतमाना अपि सेनाः, कथमपि पृष्ठं न लभेरन् , तथा वेगातिशययुक्तं कृत्वेत्यभिप्रायः । सिंहनां गजरीणाम् अध्वमध्यमिलितविन्ध्यवन दृश्यानां । विरुते असमाप्ते एव सति प्रत्यवस्थानसंरम्भपूर्वरूपस्य गजदर्शनक्षणसमारब्धस्य नादस्य परिसमापनात् प्रागेवेत्यर्थः। सविन्ध्यं वनं त्यक्त्वा विन्ध्याद्रितसहितमरण्यम् अतिलङ्घ्य । एकाहे एकास्मिन्नैवाहि । व्यसने वने स्वनगरे शववरोधे अरण्ये कौशाम्यां च । त्रिवर्णो दशां गत्वा त्रिरूपां बन्धनावस्था, बहुयोजनायतवनलङ्घनावस्थ, स्वनगरप्राप्स्यवस्थेयेवं त्रिप्रकाराम् अवत्थां, गजवेगवाहनप्रभावादासाद्य । येन द्विरदच्छलेन गजाश्रयेण छझना । एषः स्वामी नियतः पूर्वं यन्त्रितः । तेनैव द्विरदच्छलेन, निर्वाह्यते सम्प्रति कृताथ्यते, अर्थाद् बन्धनिष्त्र्कमणपूर्वकस्वनगरप्राप्तिघटनया ॥ ५ ॥