सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

PEDIES श्रीगणेशाय नमः ।। पारस्करगृह्यसूत्रम्। अथातो गृह्यस्थालीपाकानां कर्म । परिसमुह्यो- पलिप्योलिख्योद्धृत्याभ्युक्ष्याग्निमुपसमाधाय दक्षिणतो ब्रह्मासनमास्तीर्य प्रणीय परिस्तीर्थवदासाद्य पवित्रे कृत्वा प्रोक्षणीः संस्कृत्यार्थवत्प्रोक्ष्य निरूप्याऽऽज्यमधि- श्रित्य पर्यग्निकुर्यात् । नुवं प्रतप्य संमृज्याभ्युक्ष्य पुनः प्रतप्य निदध्यात् । आज्यमुद्दास्योत्पूयावेक्ष्य प्रोक्षणीश्च पूर्ववदुपयमनान्कुशानादाय समिधोऽभ्या- धाय पर्युक्ष्य जुहुयात् । एष एवं विधिर्यत्र कचि. । डोमः ॥ १ ॥ आवसथ्याधानं दारकाले, दायाद्यकाल एकेषाम् । वैश्यस्य बहुपशोहादग्निमाहृत्य चातुष्प्राश्यपचनव- त्सर्वम् । अरणिप्रदानमेके;पञ्च महायज्ञा इति श्रुतेः । अग्न्याधेयदेवताभ्यः स्थालीपाकश्रपयित्वाऽऽज्यभागा- विष्ट्वाऽऽज्याहुतीर्जुहोति-'त्वन्नो अग्ने 'सत्वन्नो अग्ने' 'इमं मेवरुण' 'तत्वायामि' 'येतेशतम्' 'अयाश्वाने' 'उदुत्तम' 'भवतन्न'इत्यष्टौ पुरस्तात् । एवमुपरिष्टात्स्थालीपाकस्या- ग्न्याधेयदेवताभ्यो हुत्वा जुहोति, स्विष्टकृते च । 'अ , -