सामग्री पर जाएँ

पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ७२ ) पृ० ३२१ )१ । इदमपि चिन्तनीयं यद् आपस्तम्बधर्मसूत्रान्तर्गताध्यात्मपटल- विवरणकारी योगभाष्यविवरणकारश्चाभिन्नौ नवेति । तथैव विष्णुसहस्र-नाम- भाष्यकारी विवरणकारो न वेति गवेषणीयो विषयः । विवरणप्राचीनानि भाष्यव्याख्यानानि - इदं प्रतीयते यद् विवरणात् प्राक् तत्त्ववैशारदी अन्याश्च व्याख्या काश्चन प्रणीता इति । तथाहि - ३।६ भाष्य- विवरणे अन्यत्र च यद् व्याख्यान्तरमुदाहृतं, न तत् सर्वथा मिश्र-भिक्षु व्याख्या- नुसारि । अपि च सूत्रपाठे यानि पाठवैलक्षण्यानि ( २ । ७-८ सूत्रयोः, २१६ सूत्रे च ) प्रदर्शितानि, तैर्ज्ञायते विवरणकारीया परम्पराऽपि मिश्रभिक्षुतः पृथग्रूपेणासीदिति । विवरणव्याख्यावैशिष्टयम् --क्वचिच्च विवरणगतं व्याख्यानमत्युत्कृष्टं प्रतिभाति । तथाहि -- २।४७ सूत्रगतानन्त्यसमापत्तिव्याख्यान उक्तम्- “अनन्तं विश्वम्, अनन्तभाव आनन्त्यम्" इति । योगाभ्यासदृष्टये दं व्याख्यान- मत्युपयोगि, मिश्र - भिक्षुभ्यां च शेषनागपरतया यद् व्याख्यानमाचरितं तन्न योगोपयोगीति । ईश्वरानुमानविषये विवरणे बहूक्तं ( पृ० ५८-७२), एतेन तस्य न्यायशास्त्रज्ञानप्रकर्षो विज्ञायते । ३।१३ विवरणे 'तदेतत् त्रैलोक्यम्' इति भाष्यवाक्यं व्याख्यातम् । न्यायभाष्य-वार्त्तिकादिषु भाष्य-वाक्येऽस्मिन् विरुद्ध- हेत्वाभासरूपो यो दोषः प्रदत्तः, स च समाहितो ग्रन्थकृता । अनुवृत्तिविषयक- स्तोंऽपि दृश्यते, यथा- १ | २ सूत्रे किमर्थं पुनर्योगपदग्रहणमिति शङ्काया उत्तरं प्रदत्तमत्र । तथैव कथं पुनश्चितिः चितिशक्तिरित्युच्यते इति विवृतं ग्रन्थ- कृता ( १।२ ) । न्यायादिमतानि च बहुत्रोल्लिखितानि खण्डितानि च (१॥४, १७, १४३,)। बुद्ध-ऋषभादीनां शानं न निरतिशयमित्युक्तमत्र ( १ | २५ ) । १।४० विवरणे संक्षिप्ता, विशाला, विकरणी चेति तिस्रो धारणा उक्ताः । एतादृशी गणनापद्धतिर्नान्यत्रोपलब्धी । विज्ञानभिक्षुकृतं योगवार्त्तिकम् १- अयं विज्ञानभिक्षुरतिप्रथितः सांख्या- १. जयमङ्गलाकारः वाचस्पतेरपि पूर्वंभव इत्युक्तमुदयवीरशास्त्रिणा । सोऽयं पक्षः साधुरेवेति न कथयितुं शक्यते । यतो हि विवरणकारजयमङ्गलाकारयोरैक्यं नास्माभिः सुप्रमाणितम्, सँभावितरूपेणैव प्रतिप्रतिपादितम्, अतो जयमङ्गलाकर्तृकाल एव विवरणकतु काल इत्यपि नैकान्ततः कथयितुं शक्यते । १ - नामत इदं प्रतीयते यद् वात्तिंकपद्धत्या व्याख्येयं रचितेति । 'उक्तानुक्त