( ७१ ) ु वेदः । श्रवः ऋदोरप् तत्र भवो हेतुरानुश्रविकः, अध्यात्म्यादिः ( २ का० ), ४- पुरं शरीरं तस्मिन् वसतीति पुरुषः, नैरुक्तोऽत्र विधिः ( ३ का० ); ५- इतिहैव ऐतिह्यं स्वार्थे ष्यञ् ( ४ का० ); ६–आश्रीयन्ते इत्याश्रयाः। कर्मण्यण् ( १२ का० ); ७ – जनयन्तीति जननाः । कृत्यल्युटो बहुलमिति कर्त्तरि ब्युट् । अनेकार्थत्वाच्च घातूनां बोधनार्था द्रष्टव्याः ( १२ का० ); ८- अस्मादेव प्रयोगात् उपस्थशब्दः पुंलिङ्गोऽप्यस्तीति गम्यते ( २६ का० ), ६ – करणं करोतीति; कृत्यल्युटो बहुलमिति कर्तरि ल्युट ( ३२ का० ); १० – सुज्यत इति सर्गः ( ५२ का० ); ११ –पवित्रमिति | पुनातीति कृत्वा ( ७० का० ) । विवरणगतानि शब्दविचारस्थलानि – १-३।१७ सूत्रव्याख्याने प्रकृति- प्रत्ययानवस्थितत्वमधिकृत्य बहून्युदाहरणानि प्रदत्त नि; २–गोष्पदं सेविता- से वितप्रमाणेषु इति पाणिनिसूत्र मुद्धृतम् (२।५); ३ - नञ्वार्तिकम् (२ | २ | ६ ) इत्युक्त्वा अब्राह्मण मानयेत्युक्तम् (२५) ४-आध्यात्मिकम् । अघि आत्मनीति अध्यात्मम् । तत्र भवमाध्यात्मिकम् अध्यात्मादिभ्यष्ठकू इत्युपसंख्यानात् ठक् ( १ । ३१ ); ५ – वार्तिककारेणोक्तं सिद्धन्तु (१|६ ); ६ – द्विचन्द्रस्थले द्विचन्द्रीति कथं न भवतीति १/८ भाष्यव्याख्यायां विचारितम्; ७–२ - सर्वभूमि- पृथिवी इत्यैश्वर्यार्थीयोऽण् प्रत्ययः, अनुशतिकादित्वाद् उभयपदवृद्धिः ( १ । १ पृ० ५ ); ८ – अपि चैवं हि स्मृतिः किञ्चिदव्ययम् ( महाभाष्य १।१।३७ ) (१।१ पृ० ४ ); ६ - प्रतिसिद्धवस्तुधर्मा- समासान्तः चिन्त्य- समाधिः (१।६ ) । उपर्युक्तेषु स्थलेषु निष्प्रयोजना शब्दचर्चा कृतेति दृश्यते । एतादृशासाधारण- मनोवृत्तिसाम्याद् उभयोः कर्ता एक इति संभाव्यते । जयमङ्गलाकारो योगसूत्रं योगभाष्यं च अपाठीदिति विज्ञायते, अतो यदि पातञ्जलयोगप्रामाण्यवादी जयमङ्गलाकारो योगभाष्यटीकां व्यरचयत् तर्हि न विप्रतिपत्तेरवसरः कश्चित् । अभावादिप्रमाणनिरासे उभयोः समाना दृष्टिरवलोक्यते ( द्र० योगसू० १।७; सां० का० ४ ) । विवरणकारकालः - इदं दृश्यते यद् विवरणे वाचस्पतिमतमुदधृतम् ( १ | २४), अतो विवरणकृद् वाचस्पतेरर्वाक्कालिक इति निश्चितम् । यदि जयमङ्गलाकार एव विवरणकार इत्यभ्युपगभ्यते, तर्हि जयमङ्गलाकारकालो विचार्यः। स च वाचस्पत्तेरनन्तरं प्रादुबभूवेति बलदेवोपाध्यायः (भारतीय दर्शन
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/८४
दिखावट