सामग्री पर जाएँ

पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ६२ ) •विद्यासंप्रदाये एतेषां शब्दानामर्थाः सुप्रसिद्धा आसन्निति । १।८ भाष्ये तमो- मोहादिसंज्ञोल्लेखोऽस्ति, सोऽपि योगशास्त्रान्तरसत्तां शापयति । २।२३ भाष्ये 'इत्येते शास्त्रगता विकल्पाः' इति यद् वाक्यमस्ति, तदपि योगशास्त्रान्तरसत्ता- ज्ञापकमिति निर्विवादम् । एवमन्यत्रापि ज्ञेयम् । योगभाष्योद्धरणकर्तारः - यथा योगसूत्रं बहुभिराचार्यैः स्मृतं तथा योगभाष्यमपि । आह जयन्तभट्टो न्यायमञ्जर्याम् – “अन्यत्राप्युक्तम्- भोगाभ्यासमनु विवर्धन्ते रागाः, कौशलानि चेन्द्रियाणाम्" इति ( पृ० ८७, मोक्षाभ्यासमिति मुद्रितः पाठः ) । तदिदं वाक्यं २।१५ भाष्ये दृश्यते । इदं प्रतीयते यन्न्यायभाष्येऽपि योगभाष्यमुद्धृतम् । तथाहि वात्स्यायनो बक्ति–“परिणामश्च अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोलत्तिः” इति ( ३।२।१५ ) । योगभाष्ये पुनः पठ्यते– “अथ कोऽयं परिणाम: १ अवस्थितस्यधर्मान्तरोत्पत्तिः परिणाम इति" ( ३११५ ) । एतादृशं शब्दसाम्यं न सहसा संभवति, अतः उत्तमर्णो व्यास इत्यम्युपेमम् । वाक्यपदीयगतकाल- समुद्देश- हेलाराजटीकायाम् ( ६१ श्लो० ) 'तदुक्तं पातञ्जले धर्मी त्र्यध्वेत्यादि यद् वाक्यमुक्तं तद् ३।१३ योगभाष्यगतम् । ५५ श्लोक व्याख्यायामपि तथैव । जैनादिविद्वत्कृतग्रन्थेष्वपि योगभाष्योद्धरणं वर्तत इति प्रागुक्तम् । सर्वदर्शनसंग्रहान्तर्गतपातञ्जलदर्शनप्रकरणे भाष्यमिदमुद्धृतम् ( पृ० ३४७ ) । व्यासभाष्यपाठसमीक्षा - भाष्यमिदं शुद्धपाठभूयिष्ठमेवावलोक्यते । क्वचिदेव पाठ-विषये द्वैधमुपजायते । केचिद् विशिष्टाः पाठभेदा विचार्यन्ते- १ – १।७ भाष्ये विन्ध्यश्चाप्राप्तेरगतिरिति क्वचित् पठ्यते, तत्त्ववैशारद्यां यथा व्याख्यातं तथा मुदितः पाठ एव युक्तः । भिक्षुस्तु अप्राप्तेरिति पाठस्या- युक्ततां दर्शितवान् । २ - १|६ इत्यत्र 'प्रतिषिद्धवस्तुधर्म' इति पाठोऽपि दृश्यते । पाणिनीय- प्रभावानुसारेण कैश्चिद् अस्मत्सम्मते प्राचीनतरपाठस्थाने परिवर्तितः पाठः स्थापित इति प्रतिभाति । १. क्वचित् योगभाष्यवचांसि पतञ्जलिनाम्ना उद्घृतानि दृश्यन्ते यथा सन्मति- तर्कांग्रन्थे ( पृ० १५३ ) २११५ भाष्यगतं भोगाभ्यासमित्यादिवाक्यं पतञ्जलिनाम्नोद्- घृतम् । तथैव षड्दर्शनसमुच्चयस्य गुणरत्नकृतटोकायां (पृ० १०५) २।२० योगभाष्य- गतं शुद्धोऽपि पुरुषः प्रत्ययमित्यादि वाक्यं पतञ्जलि वाक्यरूपेण कथितम् । ४१० योगभाष्यगतमेकं वाक्यं पतञ्जलिवाक्यरूपेरण न्यायवार्तिकतात्पर्यटोकायाम् (पृ. ६ ) पठितम् ।