पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ६१ ) परकीयमेवेति 'इति' पदप्रयोगाद् वा गम्यते । (२।२।६) । शारीरके शंकरस्तु 'चलं गुणवृत्तमिति चास्त्यभ्युपगम' इत्याह । पूर्वेषां सांख्याचार्याणां ग्रन्थे वाक्यमिदमासीदिति प्रतीयते । न च मन्तव्यं यत् शंकरो योगभाष्यतो वाक्यमिदं उद्धरति । न खलु शंकरेण योगभाष्यं दृष्टमित्यन्यत्र प्रतिपादितम् । अपरमपि। सेयं पञ्चपर्वा भवत्यविद्येत्येवाह भाष्यकार: ( १।८ ) । इदं च वार्षगण्यमतमिति मिश्रः, यथाह-“पञ्चपर्वा अविद्या इत्याह भगवान् वार्ष- गण्य:" ( तत्त्वकौ० ४७ कारिका ) । एवमन्येष्वपि स्थलेषु दृश्यते, अतो यावत्र ग्रन्थकार आकरग्रन्थनाम गृह्णाति तावन्नाकरनामनिर्णयो विधेयः । संभावनामात्रं प्रदर्शनीयमिति । पौराणिकवचनस्थले चेयं युक्तिः सर्व- त्रैव स्वीकरणीया । योगभाष्यो जीव्यभूतानि शास्त्राणि - यतो हि भाष्ये जैगीषव्यादीनां नामानि प्रमाणत्वेनाभ्युपगतानि, अतस्तस्कृतग्रन्था योगभाष्योपजीव्यभूता आसन्नति निश्चप्रचम् । हारीतदेवलादीनां नामानि यद्यपि न भाष्ये स्मृतानि, तथापि तत्कृतशास्त्राण्यपि भाष्यकारोऽशिश्रियदित्यपि स्वीकरणीयमेव' । पञ्च शिखः खलु प्रधान उपजीव्यभूत आचार्यो भाष्यकारस्येति प्रतिभाति । यद्यपि विन्ध्यवासिनाम भाष्ये नास्ति, तथापि इदं प्रतीयते यद् विन्ध्यवास्थपि भाष्येऽनुसृतः२ ( यदीदं प्रमितं स्याद् यद् विन्ध्यवासी भाग्यपूर्वभव आचार्य इति ) । वार्षगण्योऽपि स्मृतो भाष्ये; तन्मतानि च भाष्ये बहुत्र स्वीकृतानि 3, यद्यपि तन्नाम न सर्वत्र स्मृतम् । योगशास्त्रे भगवतो वार्षगण्यस्य कश्चिद् ग्रन्थ आसीदिति वाचस्पतिराह ( भामती २।१।३) । सन्ति भाष्ये सन्दर्भा यतः प्रतीयते यद् भाष्यकारः स्वपूर्वग्रन्थाश्रयेण स्वग्रन्थं लिलेख । तथाहि - ‘त्रीणि बन्धनानि हित्वा' इत्याह भाष्यकार: ( १।२४ ) । कानि पुनस्त्रीणीति ? अयमेकः पूर्वाचार्य सिद्धान्त इति ज्ञेयम् ( द्र० योगवा० २।११; ), स एवात्र भाष्यकारस्य लक्ष्यभूत इति । अपरमपि- भाष्यकारो वशीकारसंज्ञामाह ( १।१५) । एतेन प्रतीयते यद् यतमानादिसंज्ञा अपि स ज्ञातवानिति । अतो यतमानादिवैराग्यभेदप्रतिपादकं शास्त्रमप्यासीदिति निश्चप्रचम् । संवेगादिशब्दानामर्था भाध्ये न प्रदर्शिताः, अतो ज्ञायते योग- १. द्र० सा० द० इ० पृ० ४६६-५०६; अत्र यानि देवल-हारीत वचांस्युद्- घृतानि, तेषामनुकृतिर्योगभाष्ये क्वविद् दृश्यते । २. द्र० सा० द० इ० पृ० ५२६-५३२ । ३. द्र० सा० द० ६० पू० ५०७-५१२ ।