सामग्री पर जाएँ

पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३६ ) भावागणेशाम्यिां कायरूपेति-सूत्र व्याख्यान्ते एतत् - सूत्रस्य व्याख्यातस्वेऽपि नागोजीभट्ट-मणिप्रभाकाराभ्याम् अव्याख्यातत्वाद् विज्ञानभिक्षुणा 'सूत्रकार न्यूनतां परिहरति एतेने'तीत्युक्तत्वाच्च नेदं सूत्रम् । अत्रैव 'दिनमाससंवत्सराः' इत्येकं सूत्रं दृश्यते, तदपि प्रक्षिप्तमेव । ( ३ ) ४|१६ सूत्रम् (न चैकचित्ततन्त्रं वस्तु ) तत्त्ववैशारदीकार- सम्मतम् । भोजराजचन्द्रिकाकारमते नेदं सूत्रमिति । इदमेव मतं सम्यगिति प्रतीयते । (४) 'ते प्रतिप्रसवहेयाः सूक्ष्माः' ( २।१० ) इति खलु भाष्यमेव वाच- स्पतिमते - इति प्रतीयते । यथाह सः – “कस्मात् पुनः पञ्चमी क्लेशावस्था दग्धबीजभावतया सूक्ष्मा न सूत्रकारेण कथितेत्यत आह—ते प्रतिप्रसवेत्यादि” (२।१०) इति । नागेशोऽपि एवमेव निर्दिशति; यथाह – “ते प्रतिप्रसवहेयाः सूक्ष्मा इति तु भाष्यमेव न सूत्रमिति वाचस्पतिस्वरसः ।” — ( ५ ) केचिद् वदन्ति – तृतीयपादपर्यन्तमेव योगदर्शनम्, अत एव तृतीयपादान्ते ३।५५ सूत्रे 'इति' -पदं दृश्यते, चतुर्थपादस्तु स्वपक्षस्थापन-पर- पक्षनिर्जयात्मकः कालान्तरे केनापि योजित इति ( H. I. P. पृ० २३० ) । तदिदमविचारितरमणीयम्, भाष्यविवरणे प्रतिपादान्ते 'इति' -पदप्रयोग- दर्शनात् । वाचस्पतिमतेऽस्मिन् सूत्रे 'इति' -पदमस्ति, ( इति सूत्रसमाप्तौ ) भिक्षुमतेन नेतिपदं सार्वत्रिकम् ( कचिदिति- शब्दः सूत्रान्ते तिष्ठति, स च ज्ञानोपायव्यूहसमातिसूचनार्थः) । अतः इतिशब्दगठबलेन न किमपि साधयितुं शक्यते । यदि नाम इति शब्द-पाठः प्रामाणिकः, तथापि इदमेव सिद्धं स्याद् यत् तृतीयपादपर्यन्तं मूलग्रन्थरचनम्, चतुर्थपादस्तु परिशिष्टभूतः । स च ग्रन्थकृतैव कृतः, यथा निरुक्तपरिशिष्टं यास्ककृतमेवेति दृश्यते । इदमपि चिन्तनीयं कथं वाचस्पतिः 'इति पादसमाप्तौ' इत्याह, यतो हि पादान्तरसमाप्ति- द्योतनाथं नेतिशब्दः प्रयुक्तः सूत्रकृता । किञ्च 'इति' शब्देन सूत्रसमाप्तिद्यत्यत इति कथनं न किमपि विशिष्टं तात्पर्यं गमयति । इदं सूत्रं क्वचिच्चोद्धृतं वर्तते, तत्र 'इति'पदघटितः पाठो नोल्लिखितः (द्र० यशोविजयकृतयोगवृत्तिः, पृ० ४४ ) । नागोजिभट्टादयो वृत्तिकाराश्च 'इति' पदं सूत्रे न पठन्तीति वेदितव्यम् । योगसूत्रपाठान्तराणि—योगसूत्रव्याख्यानेभ्यः प्रतीयते यत् क्वचित् सूत्रेषु पाठभेदः समजनि । प्रायेण इमे पाठभेदा नार्थभेदकारकाः, लिपिकरप्रमाद- जाताश्च, अतो न ते विचारपदवीमारोहन्ति । अत्र टीकादिदर्शितानि पाठान्तराणि एव प्रदर्श्यन्ते। प्रायेण इमे पाउभेदाः टीकाषट्कयुक्तयोगसूत्रग्रन्थे ( चौखम्बा- प्रकाशिते ) निर्दिष्टाः ( 'चौ०' इति शब्देन तत् संस्करणं निर्दिष्टम् ) ।