( ३५ ) नानामपि मतानि न योगसूत्रे लक्षितानीत्यतः प्रचलितेम्यो दर्शनग्रन्थेभ्य इदं योगसूत्रं प्राचीनतममिति । न कोऽपि वैष्णवादिसंप्रदायगतचिन्तालेशोऽप्यत्र विद्यत इत्यतः सर्वसंप्रदायोद्भवतः पूर्वमेवेदं सूत्रं प्रणीतम् । पातञ्जलसामशाखा कदा प्रोक्तेति प्रश्नो जागर्ति। दुरवधारणोऽयं प्रश्नः । पुराणेषु इदमुक्तं यत् प्रचलिता वेदशाखाः कृष्णद्वैपायनतः प्रवृत्ता इह मन्वन्तरे | पुराणानुसारेण व्यासशिष्य जैमिनितः सामशाखापरम्परा प्रचलिता, यस्यां गुरुशिष्यपरम्परायां पतञ्जलिर्बभूव । सां यथा- कृष्णद्वैपायनो व्यासः, ततो जैमिनि:, ततः सुत्वा, ततः सुकर्मा, ततः पौष्यिञ्जिः, ततः कुथुमिः, ततः पराशरः ततश्च पतञ्जलिरिति ( वायु ६१ अ०; ब्रह्माण्ड १ । ३५ अ ) । अतो भारतयुद्धात् पश्चादेव पतञ्जलिराविरासीदिति गम्यते । इयं गणनाप्रणाली सर्वथेतिवृत्तानुसारिणीति न प्रतीयते । यतो हि पुराणोक्तशाखापरम्परागणना न वैदिकग्रन्थानुसारिणी सर्वथा । अतः प्रतीयते बहुपरम्परासु विभक्ताः शाखागणनाप्रवादाः प्रायेण भ्रष्टाः, पुराणकाराश्च लोक- परम्परातो नामानि श्रुत्वा कथञ्चित् आचार्य परम्पराक्रमं दर्शितवन्त इति । अतः कृष्णद्वैपायनप्राचीना अपि शाखा व्यासपरभविकरूपेण गणिताः, बह्वयश्च शाखा न परिगणिताः, गुरुपरम्परायामपि पुराणकारैर्व्यत्यासः कृतो बहुधा । अत एव क्वचित् पुराणे सामशाखा प्रवक्ता कृतनामा हिरण्यनाभशिष्यः व्यासशिष्य- जैमिनेरर्वाग्भव इत्युक्तम् । अन्यत्र च स एव कृतः सूर्यवंशीयोऽतिप्राचीनो राजेति कथितम् । अतो गम्यते यत् शाखाप्रवचनकाल: पुराणनिर्दिष्टो न ग्राह्यः सर्वात्मना, अपि तु विचार्यैवेति । हिरण्यनाभश्च पौष्यिजिसतीर्थ्य इति पुराणेषूक्तम् । । अस्मन्मते महाभारतयुद्धादपि प्राचीनः पतञ्जलिः । कालस्य सम्य निरूपणं तु न कर्तुं शक्यते सांप्रतम् । योगसूत्रसंख्याविमर्शः—सूत्रसंख्याविषये मतद्वैधं दृश्यते । तच्च मत- द्वैधमल्पीयः । तथाहि — ( १ ) ३।२० सूत्रम् (न. चं तत्) तत्त्ववैशारद्यां स्वीकृतम् । विज्ञानभिक्षुमतेन वाक्यमिदं भाष्यमेव । अत्र भिक्षुमतमेव सम्यगिति । भावागणेश-नागोजिभट्टाभ्यामपि नेदं व्याख्यातम् । ) सूत्रानन्तरं 'एतेन शब्दाद्यन्तर्धानमुक्तम्' इति सूत्रं चन्द्रिकाटीकायामस्ति । अत्राह योगसूत्र ग्रन्थसम्पादकः - भोजराज- ( २ ) ३ । २१ ( कायरूप - १ विषयेऽस्मिन् मत्कृतः 'पुराणगत वैदिक-सामग्री का समीक्षात्मक अध्ययन' -नामा ग्रन्थो द्रष्टव्यः ।
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/४८
दिखावट