द्वितीय प्रकरणाम् पातञ्जलयोगसूत्रम्, तद्व्याख्यानानि च योगसूत्रकारः – योगसूत्रस्य प्रणेता खलु भगवान् पतञ्जलिरिति संप्रदायः । सच दुरधिगमां योगविद्यां बहुसंवादपल्लवितां सूत्रोपनिबद्धां कृत्वा सुगमां चकारेति भास्वतीकारः ( १।१ ) । पतञ्जलिः किल अनुशशास, अतः प्रतीयते ततः प्रागपि योगविद्या सुविशदाऽऽसीदिति । व्याख्यातॄणां मते योगसूत्रात् प्राग् हैरण्यगर्भयोगविद्या प्रचलिताऽसीत् ?, याऽस्य शास्त्रस्य उपजीव्यभूता । योगसूत्रं खलु 'सांख्यप्रवचन' नाम्नाऽपि व्यवह्रियते । अत एव जयमङ्गला- टीकायां योगसूत्राणि साख्यप्रवचनपदेन उद्धृतानि (द्र० ४७ कारिका ) । योगभाष्यकारोऽपि प्रतिपादान्ते 'सांख्यप्रवचने योगशास्त्रे' इत्याह । सांख्यीया भूततन्मात्रादयः पदार्था: योगजचित्तस्थैर्यालम्बनीभूताः, योगजप्रज्ञयैव ते साक्षात्कृता भवन्ति - इत्ययं सिद्धान्तः प्रवचनपदेन व्यज्यते । अतश्च योगसूत्रो- पजीव्यभूत-हिरण्यगर्भयोगशास्त्रमपि सांख्यसंबद्ध मिति निश्चप्रचम् । हैरण्यगर्भयोगः – पतञ्जलेः प्राक् हैरण्यगर्भयोगः प्रचलित आसीदित्युक्तम् । स चातिविस्तृतः । शंकरादिभिश्च एतद्योगवचनं स्मृतम् । विष्णुपुराणे 'हिरण्य- गर्भवचनं विचिन्त्येत्थम्' इत्युक्तम् ( २ | १३ | ४४) । अतश्चेदं गम्यते यद् 'सम्मानना परां हानिम् गच्छेयुर्नैव संगतिम्' ( २ | १३ | ४२-४३ ) इति द्वौ श्लोकौ हिरण्यगर्भयोगशास्त्रीयाविति । श्रीधरोऽपि तथैवाह — “संमाननेत्यादि श्लोकद्वयं हिरण्यगर्भोक्तयोगशास्त्रवचनम्” इति ( २ | १३ | ४३ टीका ) । 'प्रपञ्च- परमार्थतावाद्ययं योगः' इति मधुसूदनसरस्वत्याह; तदसम्यक् । यतो हि परमार्थ- सिद्धौ प्रपञ्चस्यापि लयो भवति, स्वकारणेऽव्यक्तरूपेण प्रपञ्चसत्ता तिष्ठतीत्येव सुवचम् । ‘हिरण्यगर्भशास्त्रस्य अन्यद् वचनं सनत्सुजातीय-शांकरभाष्ये विद्यते १. दर्शनस्यास्य संक्षिप्तं विवरणं 'सर्वदर्शनसंग्रहे' द्रष्टव्यम् । प्रस्थानभेदेऽपि अति- संक्षिप्तमेकं विवरणमस्ति । पातञ्जलहठयोग-विवरणं सांख्य परिभाषाख्ये ग्रन्थे दृश्यते । २. योगसूत्रव्याख्यातारः प्रायेण हैरण्यगर्भयोगं पातञ्जलयोगोपजोव्यत्वेन स्मरन्ति, द्र० मणिप्रभाटीकारम्भः, तत्त्ववैशारद्यारम्भः, योगसुधाकरव्याख्यारम्भः, नागोजीव्याख्यारम्भव | भामत्याम् ( २१११३ ) अन्येष्वपि ग्रन्थेषु चायं योगः स्मृतः । योगियाज्ञवल्क्ये दृश्यते-'हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः' इति ( १२१५; अपि चन्द्र० शान्ति० २४६१६५ ) ।
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/४१
दिखावट