( २७ ) (४) तथैव जगन्मूलभूतं द्रव्यं खलु किंविधमिति दुःसाधा समस्या जड- विज्ञानविदाम् । द्रव्यमिदं मनोजातीयमेव स्यादिति तेषां नवीना दृष्टि: ' सा खलु योगदर्शनानुमोदिता। अत एव मानसबलस्यैव प्राधान्यं योगे कीर्त्यते, मानसयोग्यता यथा विवर्धिता स्यात् तथा प्राणायामादीन्यनुष्ठीयन्ते ( द्र० योग- सूत्रम् २/५३ ) | आशास्महे वयं यदागामिनि काले बाह्यदर्शनसंपन्ना विद्वांसः स्वसिद्धान्तोपपत्तये योग विज्ञानस्य शरणमियुः । कथं नु विषयभूतमिदं बाह्यं वस्तु अध्यात्मभूतं चित्तं विपरिणमयति इति न खलु कश्चिज् जडविज्ञानविद् व्याखपातुं समर्थः । सेयं समस्या 'अभिमान- सिद्धान्त' बलेन अध्यात्मतत्त्व- विद्भिः सुसमाहिता, यत्र बौद्धादयोऽपि मुह्यन्ति स्म ( कॉण्ट - हेगेलादयोऽपि तथैव ) । जगतो मनोमात्रत्वम्, ततश्चास्य मायारूपत्वं च सांख्ययोगिनामन्य- तमा प्रसिद्धा दृष्टिः, तस्यां चैकांशतो वैज्ञानिकानामनुप्रवेशो दृश्यत एत्र । ( ५ ) तथैव सत्कार्यवादोऽपि बाह्यदृशा पदार्थाविष्करणविषयेऽभ्युपगम्यते जडवैज्ञानिकैः । वैज्ञानिकानां सूक्ष्मतमाः सिद्धान्ताश्च सत्कार्यवादान्तर्गत परिणामत्रादमेव पुष्णन्ति, नारम्भवादं विवर्तवादं वा । उपादानद्रव्ये कार्य- मव्यक्तरूपेण तिष्ठति, सूक्ष्माणां कारणानां मूर्तिलाम एव कार्यम् इति दर्शन- माश्रित्यैव वैज्ञानिकैर्निर्मीयतेऽनुसन्धीयते च वस्तु नवीनं प्रत्यहम्; यश्च शक्ति- परिणामवादो वैज्ञानिकैरुररीक्रियते स च योगानुमोदित एव । ( ६ ) व्यष्टिजीवनसुखार्थमपि शीलानामभ्यसन मावश्य कम्, शीलानि च यम- नियमान्तर्गतान्येव । एतच्छीलाभ्यासपरायणैर्मुनिभिरेवादौ राष्ट्रविद्या, समाज- विद्या चोपदिष्टा, यतः शिष्टाचारबहुल: समाजोऽभूत्, यमभिलक्ष्य 'धर्मयुग'- शब्दः प्रयुक्तो महाभारते। लौकिक सर्व कार्य सिद्धयेऽपि अध्यात्मज्ञानमपरिहार्यम्, यथाह मनुः - 'ध्यानिकं सर्वमेवैतद् यदेतदभिशब्दितम् । न धनध्यात्मवित् कश्चित् क्रियाफलमुपाश्नुते ॥ इति । ( ६ | ८२ ) १. 5. Essential Unity of All Religions (पृ. १६-१६ ) ।
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/४०
दिखावट