पा ४ सू. १३ ] पातञ्जलयोगसूत्रेम् धर्मी चानेकधर्मस्वभावः । तस्य चाध्वभेदेन धर्माः प्रत्यवस्थिताः । न च यथा वर्तमानं व्यक्तिविशेष पन्नं द्रव्यतोऽस्त्येवमतीतमनागतं च कथं तर्हि ? स्वेनैव व्यङ्ग्य' न स्त्ररूपेणानागतमस्ति, स्वेन चानुभूतव्यक्तिकेन स्वरूपेणा- तीतमिति, वर्तमानस्यैवाध्वनः स्वरूपव्यक्तिरिति, न सा भवत्यतीतानागत- योरध्वनोः । एकस्य चाध्वनः समये द्वावध्वानौ धर्मिसमन्वागतौ भवत एवेति, नाभूत्वा भावस्त्रयाणामध्वनामिति ॥ १२ ॥ ते व्यक्तसूक्ष्मा गुणात्मानः ।। १३ ।। ते खल्बमी त्र्यध्वानो धर्मा वर्तमाना व्यक्तात्मानोऽतीतानागताः सूक्ष्मा त्मानः षड विशेषरूपाः । सर्वमिदं गुणानां संनिवेशविशेषमात्रमिति परमार्थ- तो गुणात्मानः । तथा च शास्त्रानुशासनम्- गुणानां परमं रूपं न दृष्टिपथमृच्छति । यत्तु दृष्टिपथं प्राप्तं तन्मायेव सुतुच्छकम् ।। इति ।। १२ । यदि तु वर्तमानत्वाभावादतीतानागतयोरसत्त्वं हन्त भी वर्तमानस्याप्यभावो- ऽतीतानागतत्वाभावात् । अध्वधर्म्य विशिष्टतथा तु सत्त्वं त्रयाणामप्यविशिष्टमित्य- भिप्रायेणाह-धर्मी चेति । प्रत्येकमवस्थानं प्रत्यवस्थितिरिति । द्रव्यत इति । द्रव्ये धर्मिणि सार्वविभक्तिकस्तसिः । यद्यतीतानागतावतीतानागतत्वेन स्तस्तर्हि वर्तमानसमये तत्त्वाभावान्न स्यातामित्यत आह - एकस्य चेति । प्रकृतमुप- संहरति - इति नाभूत्वा भाव इति ॥ १२ ॥ स्यादेतत्-अयं तु नानाप्रकारो धर्मिधर्मावस्थापरिणामरूपो विश्वमेदप्रपञ्चो न प्रधानादेकस्माद्भवितुमर्हति । न ह्यविलक्षणात्कारणात्कार्य मेदसंभव इत्यत आह—ते व्यक्तसूक्ष्मा गुणात्मानः । ते त्र्यध्वानी धर्मा व्यकाश्च सूक्ष्माश्च गुणात्मानो न बैगुण्यातिरिक्तमेषामस्ति कारणम् । वैचित्र्यं तु तदाहितानादि- क्लेशवासनानुगताद्वैचित्र्यात् । यथोक्तं वायुपुराणे- वैश्वरूप्यात्प्रधानस्य परिणामोऽयमद्भुतः || ( ५३।१२० ) इति । व्यक्तानां पृथिव्यादीनामेकादशेन्द्रियाणां च वर्तमानानामतीतानाग- तत्वं षडविशेषा यथायोगं भवन्ति । संप्रति विश्वस्य नित्यानित्यरूपे विभजन्नि- त्यरूपमाह — सर्वमिद् मिति । दृश्यमानम् । संनिवेश: संस्थानभेदवान्परिणाम इत्यर्थः । अत्रैव षष्टितन्त्रशास्त्रस्यानुशिष्टिः | मायेव न तु माया । सुतुच्छकं विनाशि । यथा हि मायाहायैवान्यथा भवत्येवं विकारा अप्याविर्भाव- तिरोभावधर्माणः प्रतिक्षणमन्यथा । प्रकृतिर्नित्यतया मायाविधर्मिणी पर- मार्थेति ॥ १३ ॥
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२७३
दिखावट