वाचस्पतिकृतटीकायुतव्यासभाष्यसमेम् [पा. ४ सू. १२ स्थातुमुत्सहन्ते । यद॒भिमुखीभूतं वस्तु यां वासनां व्यनक्ति तस्यास्तदाला- म्बनम् । एवं हेतुफलाश्रयालम्बनैरेतैः संगृहीताः सर्वा वासनाः । एषाभावे - तत्संश्रयाणामपि वासनानामभावः ॥ ११ ॥ नास्त्यसतः संभवः, न चास्ति सतो विनाश इति द्रव्यत्वेन संभवन्त्यः कथं निवर्तिष्यन्ते वासना इति- १६५ अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥ १२ ॥ भविष्यद्वयक्तिकमनागतम्, अनुभूतव्यक्तिकमतीतम् । स्वव्यापारोपा- रूढं वर्तमानम्। त्रयं चैतद्वस्तु ज्ञानस्य ज्ञेयम् । यदि चैतत् स्वरूपतो नाभविष्य- नेदं निर्विषयं ज्ञानमुदपत्स्यत, तस्मादतीतानागतं स्वरूपतोऽस्तीति । किञ्च भोगभागीयस्य वापवर्गभागीयस्य वा कर्मणः फलमुत्पित्सु यदि निरुपाख्य- मिति तदुद्देशेन तेन निमित्तेन कुशलानुष्ठानं न युज्यते । सतश्च फलस्य निमित्तं वर्तमानीकरणे समर्थ नापूर्वोपजनेन । सिद्धं निमित्तं नैमित्तिकस्य विशेषानुग्रहं कुरुते, नापूर्वमुत्पादयतीति । वर्तमानता न तु धर्मस्वरूपोत्पादः । अत्रैव हेतुमाह-न हीति । यदभिमुखीभूतं वस्तु कामिनीसंपर्कादि । व्यापकाभावे व्याप्यस्याभाव इति सूत्रार्थः ॥ ११ ॥ उत्तरं सूत्रमवतारयितुं शङ्कते–नास्तीति । असत इति तु संपातायातं निदर्श- नाय वा । अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् । नासतामुत्पादो न सतां विनाशः । किं तु सतामेव धर्माणामध्वभेदपरिणाम एवोदयव्ययाविति सूत्रार्थः । अनुभूता प्राप्ता येन व्यक्तिस्तत् तथा । संप्रति व्यक्तिर्नास्तीति यावत् । इतश्च त्रैकाल्येऽपि धर्मः सन्नित्याह – यदि चेति । न ह्यसज ज्ञानविषयः संभ- वतीति निरुपाख्यत्वात् । विषयावभासं हि विज्ञानं नासति विषये भवति । त्रैकाल्यविषयं च विज्ञानं योगिनामस्मदादीनां च विज्ञानमसति विषये नोत्पन्नं स्यात् । उत्पद्यते च । तस्मादतीतानागते सामान्यरूपेण समनुगते स्त इति । एवमनुभवतो ज्ञानं विषयसत्त्वे हेतुरुक्तम् । उद्देश्यत्वादप्यनागतस्य विषयत्वेन सत्त्वमेवेत्याह – किं च भोगभागीयस्येति । कुशलो निपुणः । अनुष्ठेयेऽपि च यद्यन्निमित्तं तत्सर्वं नैमित्तिके सत्येव विशेषमाधत्ते । यथा काण्डलाववेदाध्या- यादयः । न खल्वेते काण्डलावादयोऽसन्तमुत्पादयन्ति । सत एव तु तत्प्राप्ति- विकारौ कुर्वन्ति । एवं कुलालादयोऽपि सत एव घटस्य वर्तमानीभावहेतव इत्याह - सतश्चेति । - 2
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२७२
दिखावट