वाचस्पतिकृतटीकायुतव्यासभाष्यसमेतम् [पा. ३. सू. ३ नुमितं श्रोत्रम्, बधिराबधिरयोरेकः शब्दं गृह्णात्यपरो न गृह्णातीति, तस्मा- छ्रोत्रमेव शब्दविषयम् । श्रोत्राकाशयोः संवन्धे कृतसंयमस्य योगिनो दिव्यं श्रोत्रं प्रवर्तते ।। ४१ ।। कायाकाशयोः संबन्धसंयमाल्लघुतलसमापत्तेचा- काशगमनम् ॥ ४२ ॥ यत्र कायस्तत्राकाशं तस्यावकाशदानात् कायस्य, तेन संबन्धः प्राप्तिः । तत्र कृतसंयमो जित्वा तत्संबन्धं लघुषु वा तूलादिष्वापरमाणुभ्यः समापत्ति लब्ध्वा जितसंबन्धो लघुर्भवति । लघुत्वाच्च जले पादाभ्यां विहरति, ततस्तूर्णनाभितन्तुमात्रे विहृत्य रश्मिषु विहरति । ततो यथेष्टमा- काशगतिरस्य भवतीति ॥ ४२ ॥ बहिरकल्पिता वृत्तिर्मंहाविदेहा ततः प्रकाशावरणक्षयः ॥ ४३ ॥ शरीराद्बहिर्मनसो वृत्तिलाभो विदेहा नाम धारणा । सा यदि शरीरप्रतिष्ठस्य मनसो बहिर्वृत्तिमात्रेण भवति सा कल्पिते- त्युच्यते । या तु शरीरनिरपेक्षा बहिर्भूतस्यैत्र मनसो बहिर्वृत्तिः सा खल्व- कल्पिता । तत्र कल्पितया साधयन्त्यकल्पितां महाविदेहामिति, यया पर- छिद्रादिर्वास्यादिसाध्या । तदिह शब्दग्रहणक्रिययापि करणसाध्यया भवितव्यम् । यच्च करणं तच्च श्रोत्रमिति । अथास्याश्चक्षुरादय एव कस्मात्करणं न भवन्ती- त्यत आह—बधिराबधिरयोरिति । अन्वयव्यतिरेकाम्यामवधारणम् । उपल- क्षणं चैतत् । त्वग्वातयोश्चक्षुस्तेजसो रसनोदकयोर्नासिकापृथिव्योः संबन्धसंयमा- द्दिव्यत्वगाद्यप्यूहनीयम् ॥ ४१ ॥ कायाकाशयोः संबन्धसंयमाल्लघुतूलसमापत्तेश्चाकाशगमनम् । काया- काशसंबन्धसंयमाद्वा लघुनि वा तूलादौ कृतसंयमात्समापत्ति चेतसस्तत्स्थतद- अनतां लब्ध्वेति । सिद्धिक्रममाह -जल इति ॥ ४२ ॥ अपरमपि परशरीरावेशहेतुं संयमं क्लेशकर्मविपाकक्षय हेतुमाह - बहिरकल्पि- ता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः । विदेहामाह-शरीरादिति । अकल्पिताया महाविदेहाया य उपायस्तत्प्रदर्शनाय कल्पितां विदेहामाह–सा यदीति । वृत्तिमात्रं कल्पनाज्ञानमात्रं तेन | महाविदेहामाह - या त्विति । उपायोपेयते कल्पिताकल्पितयोराह-तत्रेति । किं परशरीरावेशमात्रमितो ने- त्याह – ततश्चेति । ततो धारणाती महाविदेहाया मनःप्रवृत्तेः सिद्धेः । क्लेशश्च कर्म च ताभ्यां विपाकत्रयं जात्यायुर्भोगाः । तदेतद्रजस्तमोमूलं विगलितरज- स्तमसः सत्त्वमात्राद्विवेकख्यातिमात्र समुत्पादात् । तदेतद्विपाकत्रयं रजस्तमो-
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२४८
दिखावट