पा. ३ सू. ४१ ] पातञ्जलयोगसूत्रम् सर्वश्रोत्राणामाकाशं प्रतिष्ठा सर्वशब्दानां च । यथोक्तम्-तुल्यदेश- श्रवणानामेकदेशश्रुतित्वं सर्वेषां भवतीति । तच्चैतदाकाशस्य लिङ्गम् अना- वरणं चोक्तम् । तथाऽमूर्तस्यानावरणदर्शनाद्विभुत्वमपि प्रख्यातमाकाशस्य । शब्दग्रहणा- षयं श्रोत्राकाशयोः संबन्धमाघाराधेयभावमाह - सर्वश्रोत्राणामाहङ्कारिका- णामप्याकाशं कर्णशष्कुलीविवरं प्रतिष्ठा तदायतनं श्रोत्रम्, तदुपकारापकाराभ्यां श्रोत्रस्योपकारापकारदर्शनात् । शब्दानां च श्रोत्रसहकारिणां पार्थिवादिशब्द- ग्रहणे कर्तव्ये कर्णशष्कुलीसुषिरवर्ति श्रोत्रं स्वाश्रयनभोगतासाधारणशब्दमपे- क्षते । गन्धादिगुणसहकारिभिर्माणादिभिर्बाह्यपृथिव्यादिवर्तिगन्धाद्यालोचनं कार्य दृष्टम् । आहङ्कारिकमपि घ्राणरसनत्वक्चक्षुःश्रोत्रं भूताधिष्ठानमेव, भूतो- पकारापकाराभ्यां घ्राणादीनामुपकारापकारदर्शनादित्युक्तम् । तच्चेदं श्रोत्रमाह- ङ्कारिकमयःप्रतिम मयस्कान्तर्माणकल्पेन वक्तृवक्त्रसमुत्पन्नेन वक्त्रस्थेन शब्देना- कृष्टं स्ववृत्तिपरम्परया वक्तृवक्त्रमागतं शब्दमालोचयति । तथा च दिग्देशवर्ति- शब्दप्रतीतिः प्राणभृन्मात्रस्य नासति बाधकेऽप्रमाणीकृता भविष्यतीति । तथा च पञ्चशिखस्य वाक्यम् —तुल्यदेशश्रवणानामेकदेशश्रुतित्वं सर्वेषां भवतीति । तुझ्यदेशानि श्रवणानि श्रोत्राणि येषां चैत्रादीनां ते तथोक्ताः । सर्वेषां श्रवणान्याकाशवर्तीनीत्यर्थः । तच्च श्रोत्राधिष्ठानमाकाशं शब्दगुणतन्मात्रादुत्पन्नं शब्दगुणकं येन शब्देन सहकारिणा पार्थिवादी शब्दान्गृह्णाति । तस्मात्सर्वेषा- मेकजातीया श्रुतिः शब्द इत्यर्थः । तदनेन श्रोत्राधिष्ठानत्वमा काशस्य शब्दगुणत्वं च दर्शितमिति । तच्चैकदेशश्रुतित्वमाकाशस्य लिङ्गम् । सा ह्येकजातीया शब्द- व्यञ्जिका श्रुतिर्यदाश्रया तदेवाकाशशब्दवाच्यम् । न हीदृशीं श्रुतिमन्तरेण शब्द- व्यक्तिः । न चेदृशी श्रुतिः पृथिव्यादिगुणः । तस्य स्वात्मनि व्यङ्ग्यव्यञ्जकत्वानु- पपत्तेरिति । अनावरणं चाकाशलिङ्गम् । यद्याकाशं नाभविष्यदन्योन्यसंपिण्डितानि मूर्तानि न सूचीभिरप्य भेत्स्यन्त । ततश्च सर्वैरेव सर्वमावृतं स्यात् । न च मूर्तद्र- व्याभाव मात्रा देवानावरणम् । अस्याभावस्य भावाश्रितत्वेन तदभावेऽभावात् । न च चितिशक्तिस्तदाश्रया भवितुमर्हति । अपरिणामितयावच्छेदकत्वाभावात् । न च दि- कालादयः पृथिव्यादिद्रव्यव्यतिरिक्ताः सन्ति । तस्मात्तादृशः परिणतिभेदो नभस एवेति सर्वमवदातम् । अनावरणे चाकाशलिङ्गे सिद्धे यत्र यत्रानावरणं तत्र तत्र सर्वत्रा- काथमिति सर्वगतत्वमप्याकाशस्य सिद्धमित्याह तथाऽमूर्तस्येति । श्रोत्र- सद्भावे प्रमाणमाह - शब्दग्रहणेति । क्रिया हि करणसाध्या दृष्टा । यथा
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२४७
दिखावट