दाहरणं पतञ्जलिनोक्तम्– 'एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामाः व्याख्याताः" इति ( ३।१३) । नैते शब्दा एकाग्रता-निरोध-समाधि-परिणाम- विवरणपरेषु सूत्रेषु (३।६ – १२ ) प्रयुक्ताः, इत्येतावता यदि कश्चिद् ब्रूयात् कथं न खलु धर्मादयो ज्ञायेरन् भूतादिष्विति, तर्हि तस्येदं कथनं दार्शनिकोचितं न स्यादिति ( द्र० तत्त्ववैशारदी, ३।१३ भाष्यारम्भे ) । सांख्ययोगविद्याया मुख्या अकृत्रिमाश्च दृष्टयः- परमर्क्युपदिष्टायाः, पञ्च- शिखादिभिः प्रपञ्चितायाः नैकसंवादेषु च पल्लविताया अस्या विद्याया इमा स्तावद् मुख्या दृष्टयः ( अत्र तत्त्वं साधनं चैकीकृत्य दृष्टय उपस्थाप्यन्ते सुखावबोधार्थम् ) – ( १ ) दुःखबहुलोऽयं संसार: परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च । सत्यलोकादिष्वपि दुःखमस्ति, तेषां नाशोऽप्यस्त्येव । न केनापि लौकिकेन आनुश्रविकेण वा उपायेन दुःखस्यात्यन्तनाशो भवति विज्ञातुः । ( २ ) विज्ञातुर्द्रष्टुभक्तर्वा स्वरूपावस्थानमेव कैवल्यम्, तदवस्थायां चित्त- नाशाद् दुःखात्यन्तविमोक्षरूपोऽपवर्गों भवति । (३) चित्तवृत्तिनिरोधाय योग आवश्यकः। योगबलेनैश्वर्यादिकमपि भवति, तत्तु कैवल्यापेक्षया हेयमेव । धर्मज्ञानवैराग्यैश्वर्यतारतम्य मेदतोऽसंख्येयप्रकाराः खलु जीवाः स्वतः पुरुषार्थसिद्धये प्रयतन्ते यथायथम् । (४) बद्धपुरुषाः खलु अनादिकोलतः प्रवर्तन्ते । सृष्टौ प्रस्फुटकरणात्मकाः, प्रलये च लीनवत्करणसम्पन्ना जीवाः कृमिहिरण्यगर्भादिदेहधारिणः जनिमृति- युतस्तिष्ठन्ति । (५) प्रत्यकचेतनस्य स्वबुद्धिसंयोगः खलु अनाद्यविद्याहेतुकः । न च अत्यन्तासंकीर्णे द्रष्ट-दृश्ये देशकाळातीते कस्मिंश्चित् काले संयुक्ते इति कल्पनीयम् । विद्यया बुद्धिपुरुषवियोगदर्शनादविद्याहेतुकत्वं संयोगस्य कल्प्यते । (६) कर्म अनादि, अनादिश्वाविद्या, अनादिश्च जन्मपरम्परा । कृतार्थं पुरुषं प्रति दृश्यं नष्टमपि अकृतार्थेषु पुरुषेषु अनष्टमेव । ( ७ ) यथा ऐशचित्तव्यपदिष्टः पुरुषोऽस्ति जगत्सर्जकः (एतादृशाः पुरुषाः खल्वपि असंख्येयाः, ब्रह्माण्डानि च असंख्येयानि ), तथा जगद्वयापारनिर्मुक्तः क्लेश कर्मविपाकाशयैरपरामृष्टः किन्तु विद्यामूलनिर्माणचित्तव्यपदिष्टः पुरुष- विशेषोऽप्यस्ति । अयमुपाधिरपि अनादिः । जगत्सर्जकः पुरुषः खलु हिरण्य- गर्भाक्षरादिपदैः प्रायेणोच्यते श्रुतिषु । तस्यैश्वर्यसंस्कारात् भूताद्यभिमानतश्च ब्रह्माण्डमाविर्भवति । स चाक्षरपुरुष: ईषदविद्यायुक्तः, समाधिविशेषबलेन च सर्वशः सर्वाधिष्ठाता ।
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२१
दिखावट