किञ्च परमार्थतः गुण-वैषम्यरूपं जगत् खड जैव-स्थूलान्तःकरणसंपर्कात् पाषाणादिरूपेणावभासते, इत्यतः मायामात्रमिदमित्यपि सांख्ययोगदृष्टयाऽभ्यु- पेयम्, यथाह भगवान् वार्षगण्यः- “गुणानां परमं रूपं न दृष्टिपथमृच्छति । यत्तु दृष्टिपथं प्राप्तं तन्मायेव सुतुच्छकम् ॥” इति ( योगभाष्य ४|१३ धृतं वाक्यम् ) । द्रष्टारं दृश्यं सत्कायवादं चाश्रित्य सांख्ययोगीयाः पदार्था' नैकधोप- न्यस्ताः – ( क ) व्यक्ताव्यक्तज्ञरूपेण, ( ख ) प्रकृति-प्रकृतिविकृति-विकृति- अप्रकृतिविकृतिरूपेण च । प्रकृतिमहदहङ्कारादिपञ्चविंशतिपदार्थरूपेण या प्रसिद्धा पदार्थगणनारीतिः, सापि गणनाप्रकारविशेष एव, प्राणादीनामत्र पृथगनुल्लेखात् । अतः एतद्विलक्षणोऽपि गणनाप्रकारो भवितुर्महति, यदि स द्रष्टृ-दृश्य-सत्कार्यवादानाश्रयेदिति । अत एव साधनदृष्टिमेदं विभाजकतत्त्व- मेदं चाश्रित्येन्द्रियादिगणनायां मतभेदा दृश्यन्त आचार्याणाम् । नैषु स्थलेषु मतविरोधः कल्पनीयः । व्यावहारिके एतादृशे मेदे सत्यपि न तात्त्विको विरोधो भवति । न खलु लौकिक: 'अक्षीणि मे सुकुमाराणी' ति ब्रुवन् नेत्रत्रयसत्ता- मभ्युपैति तत्त्वतः । एवं सर्वत्र कार्यकारणभावस्यापेक्षिकतां ज्ञात्वा 'कि कारणमापेक्षिकं चरमं वेति' विचार्यैव तत्त्वमवगन्तव्यम् । घटस्योपादानकारणं खलु कपालानी- त्येव वक्तुं शक्यते, मृत्तिकेत्यपि च । उमे उत्तरे साधू, तत्रापि मृत्तिकेति कथनं साधुतरम् । एवं सांख्ययोगेऽपि विज्ञेयम् । ईश्वरप्रकृतिकं जगदिति मतं सांख्या- नुमतमेव साधनहशा, परन्तु तत्त्वतः त्रिगुणमेव मूलमुपादानम् । शङ्करादय ऐशान्तःकरणं विश्लेषयोग्यं नेति मन्यन्ते स्म, तत्र तेषामशक्तिरेव कारणम् । सिद्धेश्वरे परमर्षौं कपिले नेयमशक्तिः संभाव्यत इति । यतो हि नियत-दृष्टिमाश्रित्य सांख्यशास्त्रं प्रवृत्तम्, अतस्तद्दृष्टौ ज्ञातायां बहवोऽनुक्ता विषया अपि ज्ञायन्ते । तथा हि -- सांख्यकारिकायां क्वापि नाभि- हितं यदव्यक्तं खलु सत्वरजस्तमसां साम्यावस्थारूपमिति । परन्तु व्यक्ताव्यक्त- विषये यानि विशेषणानि स्वरूपगर्भाणि प्रदत्तानि, तैः प्रकृतेः साम्यावस्थाऽपि अवगम्यते अञ्जसा । सांख्य सप्तत्यां शब्दतोऽव्यक्तं गुणसाम्यलक्षणं नोक्तमित्यतः 'नेदं मतमीश्वरकृष्णेन ज्ञातमिति केषाञ्चित् कथनमज्ञानमूलकमेव । अपरमप्यु- १. सांख्यीयपदार्थविषयिणी उपपत्तिरस्मत्कृते 'सांख्ययोगीय' -ग्रन्थे श्लोक- मये द्रष्टव्या ।
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२०
दिखावट