पा. २ सू. ५१ ] पातम्जलयोगसूत्रम् आभ्यन्तरः । तृतीयः स्तम्भवृत्तिर्यत्रोभयाभावः सकृत्प्रयत्नाद्भवति । यथा तप्ते न्यस्तमुपले जलं सर्वतः संकोचमापद्यते तथा द्वयोर्युगपद्गत्यभाव इति । त्रयोऽप्येते देशेन परिदृष्टा इयानस्य विषयो देश इति । कालेन परिदृष्टाः क्षणानामियत्तावधारणेना वच्छिन्ना इत्यर्थः । संख्याभिः परिदृष्टा एतावद्भिः श्वासप्रश्वासैः प्रथम उद्घातस्तद्वन्निगृहीतस्यैतावद्भिर्द्वितीय उद्धात एवं तृतीयः एवं मृदुरेवं मध्य एवं तीव्र इति संख्यापरिदृष्टः । स खल्त्रयमेवमभ्यस्तो दीर्घसूक्ष्मः ।। ५० ।। बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ ५१ ॥ देशकालसंख्याभिर्बाह्यविषयपरिदृष्ट आक्षिप्तः । तथाभ्यन्तरविषयपरि- दृष्ट आक्षिप्तः । उभयथा दीर्घसूक्ष्मः । तत्पूर्वको भूमिजयात्क्रमेणोभयोर्गत्य- तृतीय इति । तदेव स्फुटयति — यत्रोभयोः श्वासप्रश्वासयोः सकृदेव विधार- कात्प्रयत्नादभावो भवति न पुनः पूर्ववदापूरणप्रयत्नौघविधारकप्रयत्नो नापि रेचक प्रयत्नौघविधारकप्रयत्नोऽपेक्ष्यते । किं तु यथा तप्त उपले निहितं जलं परिशुष्यत्सर्वतः संकोच मापद्यत एवमयमपि मारुतो वहनशीलो बलवद्विधारक- प्रयत्ननिरुद्ध क्रियः शरीर एव सूक्ष्मीभूतोऽवतिष्ठते न तु पूरयति येन पूरकः । न तु रेचयति येन रेचक इति । इयानस्य देशो विषयः प्रादेशवितस्तिहस्तादि- परिमितो, निवातप्रदेश ईषीकातूलादिक्रियानुमितो बाह्यः। एवमान्तरोऽप्यापादत- लमामस्तकं पिपीलिकास्पर्श सदृशेनानुमितः स्पर्शेन । निमेषक्रियावच्छिन्नस्य कालस्य चतुर्थो भागः क्षणः । तेषामियत्तावधारणेनावच्छिन्नः। स्वजानुमण्डलं पाणिना त्रिःपरामृश्य च्छोटिकावच्छिन्नः कालो मात्रा । ताभिः षट्त्रिंशन्मात्राभिः परिमितः प्रथम उद्धातो मृदुः । स एव द्विगुणीकृतो द्वितीयो मध्यः । स एव त्रिगुणीकृतस्तृतीयस्तीब्रः । तमिमं संख्यापरिदृष्टं प्राणायाममाह- संख्याभि- रिति । स्वस्थस्य हि पुंसः श्वासप्रश्वासक्रियावच्छिन्नेन कालेन यथोक्तच्छो- टिकाकालः समानः प्रथमोद्वातकर्मतां नीत उद्धातो विजितो वशीकृतो निग हीतः। क्षणानामियत्ताकालो विवक्षितः, श्वासप्रश्वासप्रन्चयोपपन्नातु संख्येति कथंचिद्भेदः । स स्वल्वयं प्रत्यहमभ्यस्तो दिवसपक्षमासादिक्रमेण देशकालप्रचय व्यापितया दीर्घः । परमनैपुण्यसमधिगमनीयतया च सूक्ष्मो न तु मन्दतया ||५०|| एवं त्रयो विशेषा लक्षिताः । चतुर्थं लक्षयति—बाह्याभ्यन्तरविषया रोपी चतुर्थः । ब्याचष्टे – देशकालसंख्याभिरिति । आक्षिप्तोऽभ्यासवशी- कृताद्रूपा दवरोपितः । सोऽपि दीर्घसूक्ष्मः। एवं तत्पूर्वको बाह्याभ्यन्तरविषयप्राणा- यामो देशकालसंख्या दर्शनपूर्वकः । न चासौ चतुर्थस्तृतीय इव सकृत्प्रयत्नादाय
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२०७
दिखावट