वाचस्पतिकृतटीकायुतव्यासभाष्यसमेम् [पा. २ सू. ५० भवतीति वाक्यशेषः। प्रयत्नोपरमात्सिध्यत्यासनं येन नाङ्गमेजयो भवति । अनन्ते वा समापन्नं चित्तमासनं निर्धर्तयतोति ॥ ४७ ॥ ततो द्वन्द्वानभिवातः ॥ ४८ ॥ शीतोष्ण दिद्भिद्वन्द्व रासनजयान्नाभिभूयते ।। ४८ ।। तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥ ४९ ॥ सत्यासनजये बाह्यस्य वायोराचमनं श्वासः । कौष्ठयस्य वायोर्निःसारणं प्रश्वासः । तयोर्गतिविच्छेद उभयाभावः प्राणायामः ।। ४९ ।। स तु बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥ ५० ॥ यत्र प्रश्वासपूर्वको गत्यभावः स बाह्यः । यत्र श्वासपूर्वको गत्यभावः स सांसिद्धिको हि प्रयत्नः शरीरधारको न योगाङ्गस्योपदेष्टव्यासनस्य कारणम् । तस्य तत्कारणत्व उपदेशवैयर्थ्यात्स्वरसत एव तत्सिद्धेः । तस्मादुपदेष्टव्यस्यास- नस्यायमसाधको विरोधी च स्वाभाविकः प्रयत्नः । तस्य च यादृच्छिकासनहेतु- तयासननियमोपहन्तृत्वात् । तस्मादुपदिष्टनियमासनमभ्यस्यता स्वाभाविक प्रयत्न- शैथिल्यात्मा प्रयत्न आस्थेयो नान्यथोपदिष्टमासनं सिध्यतीति स्वाभाविक प्रयत्न- शैथिल्यमासनसिद्धिहेतुः । अनन्ते वा नागनायके स्थिरतरफणासहस्र विधृत- विश्वंभरामण्डले समापन्नं चित्तमासनं निर्वर्तयतीति ॥ ४७ ॥ आसनविजयसूचकमाह --ततो द्वन्द्वानभिघातः । निगदव्याख्यातं भाष्यम् । आसनमप्युक्तं विष्णुपुराणे- एवं भद्रासनादीनां समास्थाय गुणैर्युतम् (६।७।३६) इति ॥४८॥ आसनानन्तरं तत्पूर्वकतां प्राणायामस्य दर्शयंस्तलक्षणमाह - तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः । रेचकपूरककुम्भकेष्वस्ति श्वास- प्रश्वासयोर्गतिविच्छेद इति प्राणायामसामान्यलक्षणमेतदिति । तथा हि — यत्र बाह्यो वायुराचम्यान्तर्धार्यते पूरके तत्रास्ति श्वासप्रश्वासयोर्गतिविच्छेदः । यत्रापि कोष्ठयो वायुर्विरेच्य बर्हिर्धार्यते रेचके तत्रास्ति श्वासप्रश्वासयोर्गतिवि छेदः । एवं कुम्भकेऽपीति । तदेतद्भाष्येणोच्यते सत्यासनजय इति ॥ ४६ ॥ प्राणायामविशेषत्रयलक्षणपरं सूत्रमवतारयति- स त्विति । बाह्याभ्यन्तर- स्तम्भवृत्तिर्देशकालसंख्याभिः परि दीर्घसूक्ष्मः । वृत्तिशब्दः प्रत्येकं संब- ध्यते। रेचकमाइ – यत्र प्रश्वासेति । पूरकमाह—यत्र श्वासेति। कुम्भकमाह-
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२०६
दिखावट