वाचस्पतिकृतटीकायुतव्यासभाष्यसमेतम् [ पा. २ सू. ३२ परिपालनीयाः । सर्वभूमिषु सर्वविषयेषु सर्वथैवाविदितव्यभिचाराः सार्वभौमा सहाव्रतमित्युच्यन्ते ।। ३१ ।। ९३ शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ ३२ ॥ तत्र शौचं मृज्जलादिजनितं मेध्याभ्यवहरणादि च बाह्यम् । आभ्यन्तर चित्तमलानामाक्षालनम्। संतोषः संनिहितसाधनाधिकस्यानुपादित्सा । तपो द्वन्द्वसहनम् । द्वन्द्वञ्च जिघत्सापिपासे शीतोष्णे स्थानासने काठमोना- कारमौने च । व्रतानि चैषां यथायोगं कृच्छ्रचान्द्रायणसान्तपनादीनि । स्वाध्यायो मोक्षशास्त्राणामध्ययनं प्रणवजपो वा ईश्वरप्रणिधानं तस्मिन परमगुरौ सर्वकर्मार्पणम् । शय्यासनस्थोऽथ पथि व्रजन्वा स्वस्थः परिक्षीणवितर्कजालः । संसारबीजक्षयमीक्षमाणः स्यान्नित्यमुक्तोऽमृतभोगभागी ॥ यत्रेद मुक्तं—–ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ( ११२९ ) इति ।। ३२ ।। अन्यत्राप्यवच्छेद ऊहनीयः । सुगमं भाष्यम् ॥ ३१ ॥ शौचादिनियमानाचष्टे-शौ वसन्तोष तपःस्त्रा व्यायेश्वरप्रणिधानानि नियमाः । व्याचष्टे - शौचमिति । आदिशब्देन गोमयादयो गृह्यन्ते । गोमूत्र्यावकादि मेध्यम् । तस्याभ्यवहरणादि । आदिशब्दाद् ग्रासपरिमाणसंख्या नियमादयो ग्राह्याः । मेध्धाभ्यवहरणादिजनितमिति वक्तव्ये मेध्याभ्यवहरणादि चेत्युक्तं कार्ये कारणोपचारात् । चित्तमला मदमानासूयादयः । तदपनयो मनःशौचम् | पाणयात्राम हेतोरम्बधिकस्यानुपादित्सा सन्तोषः। प्रागेव स्त्रीकरणपरित्यागादिति विशेषः।काष्ठमौनमिङ्गितेनापि स्वाभिप्रायाप्रकाशनम् । अवचनमात्रमाकारमौनम् । परिक्षीणवितर्कजाल इति । वितर्को वक्ष्यमाणः संशय विपर्ययौ चेति । एतावता शुद्धोऽभिसंधिरक्तः । एते च यमनियमा विष्णुपुराण उक्ताः- ब्रह्मचर्य महिंसां च सत्यास्तेयापरिग्रहान् । सेवेत योगी निष्कामी योग्यतां स्वमनो नयन् ॥३६॥ स्वाध्यायशौचसंतोषतपांसि नियतात्मवान् । कुर्वीत ब्रह्मणि तथा परस्मिन्प्रवणं मनः ||३७|| एते यमाः सनियमाः पञ्च पञ्च प्रकीर्तिताः । विशिष्टफलदाः काम्या निष्कामाणां विमुक्तिदाः ॥ ३८॥ ( ६ । ७ । ३६-३८ ) इति ॥ ३२ ॥
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२००
दिखावट