पातञ्जलयोगसूत्रम् पी. २ सू. ३१ पघाताय । यदि चैत्रमप्यभिधीयमाना भूतोपघातपरैव स्यान्न सत्यं भवेत्पाप- मेव भवेत् । तेन पुण्याभासेन पुण्यप्रतिरूपकेण कष्टं तमः प्राप्नुयात् । तस्मात्परीक्ष्य सर्वभूतहितं सत्यं न यात् । स्तेयमशास्त्रपूर्वकं द्रयाणां परतः स्वीकरणम्, तत्प्रतिषेधः पुनरस्पृहा- रूपमस्तेयमिति । ब्रह्मचर्यं गुप्तेन्द्रियस्योपस्थस्य संयमः । विपयाणामर्जन- रक्षणक्षयस अहिंसा दोषदर्शनादस्वीकरणमपरिग्रह इत्येते यमाः ।। ३० ।। ते तु जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥ ३१ ॥ तत्राहिसा जात्यवच्चिन्ना—मत्स्यवधकस्य मत्स्येध्वेव नान्यत्र हिंसा । सैव देशावच्छिन्ना – न तीर्थे हनिष्यामीति । सैव कालावच्छिन्ना – न चतुर्दश्यां न पुण्येऽहनि हनिष्यामीति। सैव त्रिभिरुपरतस्य समयावच्छिन्ना- देवब्राह्मणार्थे नान्यथा हनिप्यासीति । यथा च क्षत्त्रियाणां युद्ध एव हिंसा नान्यत्रेति । एभिर्जातिदेशकालसमयैर नवच्छिन्ना अहिंसादयः सर्वथैव न्प्रति म्लेच्छभाषा प्रतिपत्तिबन्ध्या, निष्प्रयोजना वा स्यादिति यथानपेक्षिता- भिधाना बाक । तत्र हि परत्र स्वबोधस्य संक्रान्तिरप्यसंक्रान्तिरेव निष्प्रयोजन- त्वादिति । एवंलक्षणमपि सत्यं पराग्कारफलं सत्याभासं न तु सत्यमित्याह- एषेति । तद्यथा सत्यतवसस्तस्करैः सार्थगमनं पृष्टस्य सार्थगमनाभिधानमिति । अभिधीयमानोच्चार्यमाणा । शेषं सुगमम् । अभावस्य भावाधीननिरूपणतया स्तेयलक्षणमाह-स्तेयमशास्त्रपूर्वक मिति । विशेषेण सामान्यं लक्ष्यत इत्यर्थः । मानसव्यापारपूर्वकत्वाद्वाचनिककायि कव्यापारयोः प्रधान्यान्मनोव्यापार उक्तोऽस्पृहारूपमिति । ब्रह्मचर्यस्वरूपमाह- गुप्तेति । संयतीपस्थोऽपि हि स्त्रीप्रेक्षणतदालापकन्दर्पायतनतदङ्ग स्पर्शनशक्तो न ब्रह्मचर्यवानिति । तन्निरासायोक्तं गुप्तेन्द्रियस्येति । इन्द्रियान्तराण्यपि तत्र लोलुपानि रक्षणीयानीति । अपरिग्रहस्त्र रूपमाह - विषयाणामिति । तत्र सङ्गदोष उक्तो ‘भोगाभ्यासमनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणामिति (२।१५ भाष्य), हिंसालक्षणश्च दोषो 'नानुपहत्य भूतान्युपभोगः संभवती' ति (२।११५ भाष्य ) | अशा- स्त्रीयाणामयत्नोपनतानामपि विषयाणां निन्दितप्रतिग्रहादिरूपार्जनदोषदर्शना- च्छास्त्रीयाणाम प्युपार्जितानां च रक्षणादिद पदर्शनादस्वीकरणमपरिग्रहः ॥ ३० ॥ सामान्यत उक्ताः । यादृशाः पुनर्योगिनामुपादेयास्तादृशान्वक्तुं सूत्रमवतार- यति—ते त्विति। जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् । सर्वासु जात्यादिलक्षणासु भूमिषु विदिताः सार्वभौमाः । अहिंसादय इति ।
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१९९
दिखावट