पी. २.सू. ९ ] सुखाभिज्ञस्य लोभः स राग इति ॥ ७ ॥ पतञ्जलयोगसूत्रम् सुखानुशयी रागः ॥ ७ ॥ सुखानुस्मृतिपूर्वः सुखे तत्साधने वा यो गर्धस्तृष्णा ५८ दुःखानुशयी द्वेषः ॥ ८ ॥ दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वा यः प्रतिघो मन्युजिघांसा क्रोधः स द्वेष इति ।। ८ ।। स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः ॥ ९ ॥ सर्वस्य प्राणिन इयमात्माशीनिंत्या भवति मा न भूवं भूयासमिति । न चाननुभूतमरणधर्मकस्यैषा भवत्यात्माशीः । एतया च पूर्वजन्मानुभवः प्रती- यते । स चायमभिनिवेशः क्लेशः स्वरसवाही, कृमेरपि जातमात्रस्य प्रत्यक्षानु- विवेकदर्शने रागादीनां विनिवृत्तेरविद्यापादितास्मिता रागादीनां निदान- मित्यस्मितानन्तरं रागादील्लँक्षयति- सुखानुशयी रागः । सुखानभिज्ञस्य स्मृते- रभावात्सुखाभिज्ञस्येत्युक्तम् । स्मयमाणे सुखे रागः सुखानुस्मृतिपूर्वकः । अनुभूय- माने तु सुखे नानुस्मृतिमपेक्षते । तत्साधने तु स्मर्यमाणे दृश्यमाने वा सुखानु- स्मृतिपूर्व एव रागः । दृश्यमानमपि हि सुखसाधनं तज्जातीयस्य सुखहेतुतां स्मृत्वा तज्जातीयतया वास्य सुखहेतुत्वमनुमायेच्छति । अनुशयिपदार्थमाह -- य इति ॥ ७ ॥ दुःखानुशयी द्वेषः । दुःखाभिशस्येति पूर्ववद्वन्याख्येयम् । अनुशयिपदार्थ- माह - यः प्रतिघ इति । प्रतिइन्तीति प्रतिषः । एतदेव पर्यायैर्विवृणोति — मन्युरिति ॥ ८ ॥ स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः। अभिनिवेशपदार्थं व्याचष्टे- सर्वस्य प्राणिन इति । इयमात्माशीरात्मनि प्रार्थना मा न भुवं माऽभावी भूवं, भूयासं जीव्यासमिति। न चाननुभूतमरणधर्मकस्य, अननुभूतो मरणधर्मों येन जन्तुना न तस्यैषा भवत्यात्माशीरभिनिवेशो मरणभयम् । प्रसङ्गतो जन्मान्तरं प्रत्याचक्षाणं नास्तिकं निराकरोति --एतया चेति । प्रत्युदितस्य शरीरस्य ध्रिय- माणत्वात्पूर्वजन्मानुभवः प्रतीयते । निकायविशिष्टाभिरपूर्वाभिदेहेन्द्रियबुद्धिवेद- नाभिरभिसंबन्धो जन्म तस्यानुभवः प्राप्तिः सा प्रतीयते । कथमित्यत आह स चायमभिनिवेशः । अर्धोक्तावेवास्य क्लेशत्वमाह-क्लेश इति । अयमहितकर्मा- दिना जन्तून् क्लिश्नाति दुःखाकरोतीति क्लेशः । वक्तुमुपक्रान्तं परिसमापयति- स्वरसवाहीति । स्वभावेन वासनारूपेण बहनशीलो न पुनरागन्तुकः। कृमेरपि
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१६५
दिखावट