पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायुतव्यासष्यसमेतम् [पा. २. सू. ६ ] मित्राभावो न मित्रमात्रं किं तु तद्विरुद्धः सपत्नः । तथाऽगोष्पदं न गोष्पदाभावो न गोष्पदमात्र किंतु देश एव ताभ्यामन्यद्वस्त्वन्तरम् । एवमविद्या न प्रमाणं न प्रमाणाभावः किं तु विद्याविपरीतं ज्ञानान्तरमविद्येति ।। ५ ।। दृग्दर्शनशक्त्योरे कात्मतेवास्मिता ॥ ६ ॥ ५७ पुरुषो क्लेश उच्यते । दृक्शक्तिर्बुद्धिदर्शनशक्तिरित्येतयोरे कस्त्र रूपापत्तिरिवास्मिता भोक्तृभोग्यशक्त्योरत्यन्तविभक्तयोरत्यन्तासंकीर्णयोर- विभागप्राप्ताविव सत्यां भोगः कल्पते, स्वरूपप्रतिलम्भे तु तयोः कैवल्यमेव भवति कुतो भोग इति । तथा चोक्तम्--बुद्धितः परं पुरुषमाकार- शीलविद्यादिभिर्विभक्तमपश्यन्कुर्यात्तत्रात्मबुद्धिं मोहेनेति ।। ६ ।। हि शब्दार्थयोः संबन्धः । लोके चोत्तरपदार्थप्रधानस्यापि नञ उत्तरपदाभिधेयो- पमर्दकस्य तल्लक्षिततद्विरुद्धपरतया तत्र तत्रोपलब्धेरिहापि तद्विरुद्धे वृत्तिरिति भावः । दृष्टान्तं विभजते - यथा नामित्र इति । न मित्राभावो नापि मित्रमा- त्रमित्यस्थानन्तरं वस्त्वन्तरं, किंतु तद्विरुद्धः सपत्न इति वक्तव्यम् । तथाऽगोष्प- दमिति न गोष्पदाभावो न गोष्पदमात्रं किं तु देश एव विपुलो गोष्पदविरुद्ध- स्ताभ्यामभावगोष्पदाभ्यामन्यद्वस्त्वन्तरम् । दार्शन्तिके योजयति — एवमिति ॥ अविद्यामुक्त्वा तस्याः कार्यमस्मितां रागादिवरिठामाह-हग्दर्शनश- क्त्योरेकात्मतेवास्मिता । दृक्च दर्शनं च ते एव शक्ती तयोरात्मानात्मनो- रनात्मन्यात्मज्ञानलक्षणाविद्यापादिता यैकात्मतेव न तु परमार्थत एकात्मता साऽस्मिता । दृग्दर्शनयोरिति वक्तव्ये तयोभक्तृभोग्ययोर्योग्यतालक्षणं संबन्धं दर्शयितुं शक्तिग्रहणम् । सूत्रं विवृणोति -पुरुष इति । नन्वनयोरभेदप्रतीतेरभेद एव कस्मान्न भवति कुतश्चैकत्वं क्लिश्नाति पुरुषमित्यत आह–भोक्तृभोग्येति । भोक्तृशक्तिः पुरुषो भोग्यशक्तिर्बुद्धिस्तयोरत्यन्तविभक्तयोः। कुतोऽत्यन्तविभक्तत्व- मित्यत आह—अत्यन्तासंकीर्णयोः । अपरिणामित्वादिधर्मकः पुरुषः परि- णामित्वादिधर्मिका बुद्धिरित्यसंकीर्णता । तदनेन प्रतीयमानोऽप्यभेदो न पार- मार्थिक इत्युक्तम् । अविभागेति क्लेशत्वमुक्तम् । अन्वयं दर्शयित्वा व्यतिरे- कमाह -- --स्वरूपेति । प्रतिलम्भो विवेकख्यातिः । परस्याप्येतत्संमतमित्याह- तथाचोक्तं पञ्चशिखेन बुद्धित इति । आकारः स्वरूपं सदा विशुद्धिः । शीलमौदासीन्यम् । विद्या चैतन्यम् । बुद्धिरविशुद्धानुदासीना जडा चेति तत्रात्मबुद्धिरविद्या । मोहः पूर्वाविद्याजनितः संस्कारस्तमो वाऽविद्यायास्ताम- सत्वादिति ॥ ६ ॥