पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पी. २सू. ४ ] पातञ्जलयोगसूत्रम् दग्धमिति विषयस्य संमुखीभावेऽपि सति न भवत्येषां प्रबोध इति उक्ता प्रसुप्तिः, दग्धबीजानामप्ररोहश्च । ५४ तनुत्वमुच्यते--प्रतिपक्षभावनोपहताः क्लेशास्तनवो भवन्ति । तथा विच्छिद्य विच्छिद्य तेन तेनात्मना पुनः पुनः समुदाचरन्तीति विच्छिन्नाः | कथम् ? रागकाले क्रोधस्यादर्शनात्, न हि रागकाले क्रोधः समुदाचरति । रागश्च क्वचिदृश्यमानो न विषयान्तरे नास्ति। नैकस्यां स्त्रियां चैत्रो रक्त इत्यन्यासु स्त्रीषु विरक्तः, किं तु तत्र रागो लब्धवृत्तिरन्यत्र तु भविष्यद्वृत्ति- रिति । स हि तदा प्ररुप्ततनुविच्छिन्नो भवति । विषये यो लब्धवृत्तिः स उदारः । सर्व एवैते क्लेशविषयत्वं नातिक्रामन्ति । कस्तर्हि विच्छिन्नः प्रसुप्त- स्तनुरुदारो वा क्लेश इति । उच्यते--सत्यमेवैतत् । किं तु विशिष्टानामेवै- तेषां विच्छिन्नादित्वम् । यथैव प्रतिपक्षभावनातो निवृत्तस्तथैव स्वव्यञ्ज- काञ्जनेनाभिव्यक्त इति । सर्व एवामी क्लेशा अविद्याभेदाः । कस्मात् ? न क्लेशा: प्रबुध्यन्त इत्यत आह - सतामिति । सन्तु क्लेशा, दग्धस्त्वेषां प्रसंख्यानाग्निना बीजभाव इत्यर्थः । क्लेशप्रतिपक्षः क्रियायोगस्तस्य भावनमनुष्ठानं तेनोपहतास्तनवः । अथ वा सम्यग्ज्ञानमविद्यायाः प्रतिपक्षो मेददर्शनमस्मिताया माध्यस्थ्यं रागद्वेषयोरनुबन्ध- बुद्धि निवृत्तिरभिनिवेशस्येति । विच्छित्तिमाह - तथेति । क्लेशानामन्यतमेन समुदाचरताभिभवाद्वात्यन्तं विषयसेवया वा विच्छिद्य विच्छिद्य तेन तेनात्मना समुदाचरन्त्याविर्भवन्ति वाजीकरणाद्यपयोगेन वाभिभावकदौर्बल्येन वेति । वीप्सया विच्छेदसमुदाचारयोः पौनःपुन्यं दर्शयता यथोक्तात्मसुप्ताद्भेद उक्तः । रागेण वा समुदाचरता विजातीयः क्रोधोऽभिभूयते सजातीयेन वा विषया- न्तरवर्तिना रागेणैव विषयान्तरवर्ती रागोऽभिभूयत इत्याह - रागेति । भवि- घ्यवृत्तेस्त्रयी गतिर्यथायोगं वेदितव्येत्याह-स हीति । भविष्यद्वृत्तिक्लेशमात्र- परामशि सर्वनाम न चैत्ररागपरामर्शि, तस्य विच्छिन्नत्वा देवेति । उदारमाह- विषय इति । ननूदार एव पुरुषान्क्लिश्नातीति भवतु क्लेशः । अन्ये त्वक्लिश्नतः कथं क्लेशा इत्यत आह -सर्व एवैत इति । क्लेशविषयत्वं क्लेशपदवाच्यत्वं नाति- वामन्त्युदरतामापद्यमानाः । अत एव तेऽपि हेया इति भावः । क्लेशत्वेनैकतां मन्यमानश्चोदयति–कस्तहति । क्लेशत्वेन समानत्वेऽपि यथोक्तावस्थाभेदा- द्विशेष इति परिहरति - उच्यते सत्यमिति । स्यादेतत्-अविद्यातो भवन्तु क्लेशाः, तथाप्यविद्यानिवृत्तौ कस्मान्निवर्तन्ते ! न खल पट: कुविन्दनिवृत्तौ