पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पति कृतटीकायुतव्यास भाष्यसमेतम् [पा. २ सं. ४ क्लेशा इति पञ्च विपर्यया इत्यर्थः । ते स्यन्दमाना गुणाधिकारं द्रढ- यन्ति, परिणाममवस्थापयन्ति, कार्यकारणस्त्रोत उन्नमयन्ति, परस्परानुग्रह- तन्त्रीभूत्वा कर्मविपाकं चाभिनिर्हरन्तीति ॥ ३ ॥ अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ ४ ॥ अत्राविद्या क्षेत्र प्रसवभूमिरुत्तरेषामस्मितादीनां चतुर्विधविकल्पानां प्रसुप्त तनुविच्छिन्नोदाराणाम् । तत्र का प्रसुप्तिः ? चेतसि शक्तिमात्रप्रतिष्ठानां बीजभावोपगमः, तस्य प्रबोध आलम्बने संमुखीभावः । प्रसंख्यानवतो दुग्धक्लेशबीजस्य संमुखीभूतेऽप्यालम्बने नासौ पुनरस्ति, दग्धवीजस्य कुतः प्ररोह इति, अतः क्षीणक्लेशः कुशलञ्चरमदेह इत्युच्यते । तत्रैव सा दग्ध- बीजभावा पञ्चमी क्लेशावस्था नान्यत्रेति । सतां क्लेशानां तदा बीजसामर्थ्य । भिनिवेशाः पञ्चक्लेशाः । व्याचष्टे-पञ्च विपर्यया इति । अविद्या तावद्वि- पर्यय एव। अस्मितादयोऽप्यविद्योपादानास्तदविनाभाववर्तिन इति विपर्ययाः। ततश्चाविद्यासमुच्छेदे तेषामपि समुच्छेदो युक्त इति भावः । तेषामुच्छेत्तव्यता- हेतुं संसारकारणत्वमाह– ते इति । स्यन्दमानाः समुदाचरन्तो गुणानामधिकार द्रढयन्ति बलवन्तं कुर्वन्त्यत एव परिणाममवस्थापयन्ति अव्यक्तमहदहंकार- परम्परया हि कार्यकारणस्त्रोत उन्नमयन्त्युद्धावयन्ति । यदथं सर्वमेतत्कुर्वन्ति तद्दर्शयति–परस्परेति । कर्मणां विपाको जात्यायुर्भोगलक्षणः पुरुषार्थस्तममी क्लेशा अभिनिर्हरन्ति निष्पादयन्ति । किं प्रत्येकं निष्पादयन्ति, नेत्याह- परस्परानुग्रहेति । कर्मभिः क्लेशाः क्लेशैश्च कर्माणीति ॥ ३ ॥ हेयानां क्लेशानामविद्यामूलत्वं दर्शयति — अविद्या क्षेत्रमुत्तरेषां प्रसुप्त- तनुविच्छिन्नोदाराणाम् । तत्र का प्रसुप्तिरिति । स्वोचितामर्थक्रियामकुर्वंतां क्लेशानां सद्भावे न प्रमाणमस्तीत्यप्यभिप्रायः पृच्छतः । उत्तरमाह-चेतसीति । मा नामार्थक्रियां कार्षुः क्लेशा विदेहप्रकृतिलयानाम्, बीजभावं प्राप्तास्तु ते शक्ति- मात्रेण सन्ति क्षीर इव दधि । न हि विवेकख्यातेरन्यदस्ति कारणं तद्बन्ध्यतायाम् । अतो विदेहप्रकृतिलया विवेकख्यातिविरहिणः प्रसुप्तक्लेशा न यावत्तदवधिकालं प्राप्नुवन्ति । तत्प्रासौ तु पुनरावृत्ताः सन्तः क्लेशास्तेषु तेषु विषयेषु संमुखी- भवन्ति । शक्तिमात्रेण प्रतिष्ठा येषां ते तथोक्ताः । तदनेनोत्पत्तिशक्तिरुक्ता । बीजभावोपगम इति च कार्यशक्तिरिति । ननु विवेकख्यातिमतोऽपि क्लेशाः कस्मान्न प्रसुप्ता इत्यत आह - प्रसंख्यानवत इति । चरमदेहः, न तस्य देहा- न्तरमुत्पत्स्यते यदपेक्षयास्य देहः पूर्व इत्यर्थः । नान्यत्र | विदेहादिष्वित्यर्थः । ननु सतो नाव्यन्तविनाश इति किमिति तदीययोगर्द्धिबलेन विषयसंमुखीभावे