४२ पॉ. १ सू. ४३ ] पातञ्जलयोगसूत्रम् तस्या एकबुद्ध्युपक्रमो ह्यर्थात्माऽणुप्रचयविशेषात्मा गवादिर्घटादिर्वा लोकः। स च संस्थानविशेषो भूतसूक्ष्माणां साधारणो धर्म आत्मभूतः, → फलेन व्यक्तेनानुमितः स्वव्यञ्जकाञ्जनः प्रादुर्भवति, धर्मान्तरस्य कपालादे- रुदये च तिरोभवति । स एष धर्मोऽवयवीत्युच्यते । योऽसावेकश्च महांश्चाणी- यांश्च स्पर्शवांश्च क्रियाधर्मकञ्चानित्यश्च तेनावयविना व्यवहाराः क्रियन्ते । विषयविप्रतिपत्ति निराकरोति तस्या एकेति । एकां बुद्धिमुपक्रमत आ- रभत इत्येकबुद्ध्युपक्रमः । तदनेन परमाणवो नानात्मानो न निर्वितर्कविषया इत्युक्तं भवति । योग्यत्वेऽपि तेषां परमसूक्ष्माणां नानाभूतानां महत्त्वैकार्थसम- वेतैकत्वनिर्भासप्रत्ययविषयत्वायोगात् । अस्तु तर्हि परमार्थसत्सु परमाणुषु सां- वृतः प्रतिभासधर्मः स्थौल्यमित्यत आह - अर्थात्मेति । नासति बाधके स्थूल- मनुभवसिद्धं शक्यापह्नवमिति भावः । तत्र ये पश्यन्ति द्वथणुकादिक्रमेण गोघटादय उपजायन्त इति तान्प्रत्याह–अणुप्रचयेति । अणूनां प्रचयः स्थूल- रूपपरिणामः । स च विशिष्यतेऽन्यस्मात्परिणामान्तरात् । स एवात्मा स्वरूपं यस्य स तथोक्तः । गवादिर्भोंगायतनम् । घटादिविषयः । तच्चैतदुभयमपि लोक्यतइति लोकः । नन्वेष भूतसूक्ष्मेभ्यो मिन्नोऽभिन्नो वा स्यात् । भिन्नश्चेत्कथं तदाश्रयः कथं च तदाकारः । नहि घटः पटादन्यस्तदाकारस्तदाश्रयो वा । अभिन्नश्चेत्तद्वदेव सूक्ष्मोऽसाधारणश्च स्यादत आह–स चेति । अयमभिप्रायः नैकान्ततः परमाणुभ्यो भिन्नो घटादिरभिन्नो वा । भिन्नत्वे गवाश्ववद्धर्मधर्मिभावानुपपत्तेः । अभिन्नत्वे धर्मिरूपवत्तदनुपपत्तेः । तस्मात्कथञ्चिद्भिन्नः कथञ्चिदभिन्नश्चा- स्थेयः । तथा च सर्वमुपपद्यते । भूतसूक्ष्माणामिति षष्ठ्या कथंचिद्भेदं सूचयति । आत्मभूत इति चामेदम् । फलेन व्यक्तेन तदनुभवलक्षणेन तद्व्यवहारलक्षणेन च व्यक्तेन विप्रतिपन्नं प्रत्यनुमापितः । कारणाभेदेन च कारणाकारतोपपन्नेत्याह- स्वव्यञ्जकाञ्जन इति । स किं तदात्मभूतो धर्मो नित्यो नेत्याह-धर्मान्तर इति । धर्मान्तरस्य कपालादेरुदय इत्यर्थः । तस्यावयविनः परमाणुभ्यो व्यावृत्तं रूपमा- दर्शयति - स एप इति । परमाणुसाध्यायाः क्रियाया अन्या क्रिया मधूदकादि- धारणलक्षणा तद्धर्भक इति । न केवलमनुभवादपि तु व्यवहारतोऽपि तन्निबन्ध- नत्व]ल्लोकयात्राया इत्याह -तेनेति । स्यादेतत्-असति बाधकेऽनुभवोऽवययविनं व्यवस्थापयेत् । अस्ति च बाघकं यत्सत्तत्सर्वमनवयवं यथा विज्ञानम् | सच्च गोघटादीति स्वभावहेतुः । सत्त्वं हि विरुद्धधर्मसंसर्गरहितत्वेन व्याप्तम् । तद्विरुद्धश्च विरुद्धधर्मसंसर्ग: सावयव उपल- भ्यमानो ब्यापकविरुद्धोपलब्ध्या सत्त्वमपि निवर्तयति । अस्ति चावयविनि
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१४९
दिखावट