सामग्री पर जाएँ

पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायुतव्यासभाष्यसमेतम् [ पा. १ सू, ४२ यदा पुनः शब्दसंकेतस्मृतिपरिशुद्धौ श्रुतानुमानज्ञानत्रिकल्पशून्यायां समाधिप्रज्ञायां स्वरूपमात्रेणावस्थितोऽर्थस्तत्स्वरूपाकारमात्र तयै वावच्छिद्यते सा च निर्वितर्का समापत्तिः । तत्परं प्रत्यक्षम् । तच्च श्रुतानुमानयोर्वी जम् । ततः श्रुतानुमाने प्रभवतः । न च श्रुतानुमानज्ञानसहभूतं तदर्शनम् । तस्मा- दसंकीर्णं प्रमाणान्तरेण योगिनो निर्वितर्कसमाधिजं दर्शनमिति । निर्वि- तर्कायाः समापत्तेरस्याः सूत्रेण लक्षणं द्योत्यते- । स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥४३॥ या शब्दसंकेतश्रुतानुमानज्ञानविकल्पस्मृतिपरिशुद्धौ ग्राह्यस्वरूपोपरक्ता प्रज्ञा स्वमिव प्रज्ञास्वरूपं ग्रहणात्मकं त्यक्त्वा पदार्थमात्रस्वरूपा ग्राह्यस्त्र- रूपापन्नेव भवति सा निर्वितर्का समापत्तिः । तथा च व्याख्यातम् । ४१ ध्येय. सूत्रं योजयितुं प्रथमतस्तावन्निर्वितर्का व्याचष्टे –यदा पुनरिति ! परिशु- द्धिरपनयः । शब्दसंकेतस्मरणपूर्वे खल्वागमानुमाने प्रवर्तते । संकेतश्चायं गौरि- ति शब्दार्थज्ञानानामितरेतराव्यासात्मा । ततश्चागमानुमानज्ञानविकल्पौ भव- तः । तेन तत्पूर्वा समाधिप्रज्ञा सवितर्का । यदा पुनरर्थमात्रप्रवणेन चेतसार्थ- मात्रादृतेन तदभ्यासान्नान्तरीयकतामुपगता संकेतस्मृतिस्त्यक्ता, तत्त्यागे च श्रुतानुमानज्ञानविकल्पौ तन्मूलौ त्यक्तौ, तदा तच्छून्यायां समाधिप्रज्ञायां स्वरूप- मात्रेणावस्थितोऽर्थस्तत्स्वरूपमात्रतयैव न तु विकल्पितेनाकारेण परिच्छि- द्यते, सा निर्वितर्का समापत्तिरिति । तद्योगिनां परं प्रत्यक्षमसदारोपगन्धस्याप्य भावात् । स्यादेतत्-परेण प्रत्यक्षेणार्थतत्त्वं गृहीत्वा योगिन उपदिशन्त्युपपादयन्ति च । कथं चातद्विषयाभ्यामागमपरार्थानुमानाभ्यां सोऽर्थ उपदिश्यत उपपाद्यते च । तस्मादागमानुमाने तद्विषये ते च विकल्पाविति परमपि प्रत्यक्षं विकल्प एवेत्यत आह - तच्च श्रुतेति । यदि हि सवितर्कमिव श्रुतानुमानसहभूतं तदनु- षक्तं स्याद्भवेत्संकीर्णम् । तयोस्तु बीजमेवैतत् । ततो हि श्रुतानुमाने प्रभवतः । न च यद्यस्य कारणं तत्तद्विषयं भवति । न हि धूमज्ञानं वह्निज्ञानकारणमिति वह्निविषयम् । तस्मादविकल्पेन प्रत्यक्षेण गृहीत्वा विकल्प्योपदिशन्ति चोपपा- दयन्ति च । उपसंहरति — तस्मादिति । व्याख्येयं सूत्रं योजयति–निर्वित- काया इति । स्मृतिपरिशुद्धावित्यादि सूत्रम् | शब्दसंकेतश्च श्रुतं चानुमानं च तेषां ज्ञानमेव विकल्पस्तस्मात्स्मृतिस्तस्याः परिशुद्धिरपगमस्तस्याम् । अत्र च संकेतस्मृतिपरिशुद्धिर्हेतुः । श्रुतादिज्ञानस्मृतिपरिशुद्धिश्च हेतुमती । अनुमान- शब्दश्च कर्मसाधनोऽनुमेयवाचकः । स्वमिवेतीवकारो भिन्नक्रमस्त्यक्त्वेतिपदा- नन्तरं द्रष्टव्यः ।