सामग्री पर जाएँ

पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृत टीका युतव्यासभाष्यसमेतम् [पा. १ सू. ३४ प्रमाणान्तरेणाभिभूयते । प्रमाणान्तरं च प्रत्यक्षबलेनैव व्यवहारं लभते । तस्मादेकमनेकार्थमवस्थितं च चित्तम् ॥ ३२ ॥ यस्येदं शास्त्रेण परिकर्म निर्दिश्यते तत्कथम्- मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥ ३३ ॥ तत्र सर्वप्राणिषु सुखसंभोगापन्नेषु मैत्रीं भावयेत्, दुःखितेषु करु- णाम्, पुण्यात्मकेषु मुदिताम् अपुण्यशीलेषूपेक्षाम् । एवमस्य भावयतः शुक्लो धर्म उपजायते । ततश्च चित्तं प्रसीदति, प्रसन्नमेकाग्रं स्थिति- पदं लभते ।। ३३ ।। , प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ ३४ ॥ कौष्ठयस्य बायोर्नासिकापुटाभ्यां प्रयत्नविशेषाद्वमनं प्रच्छर्दनम्। विधा रणं प्राणायामः । ताभ्यां वा मनसः स्थितिं संपादयेत् ॥ ३४ ॥ धर्मसंसर्गावत्र बाधकाबुक्ता वित्यत आह–नच प्रत्यक्षस्येति । प्रत्यक्षानुसारत एव सामग्रन्यभेदः पारोक्ष्यापरोक्ष्यधर्माविरोधश्चीपपादितो न्यायकणिकायाम् । अक्षणिकस्य चार्थक्रिया न्यायकणिकाब्रह्मतत्त्व समीक्षाभ्यामुपपादितेति सर्वमवदातम् ॥ ३२ ॥ अपरिकर्मितमनसोऽसूयादिमतः समाधितदुपायसंपत्त्यनुत्पादाच्चित्तप्रसादनो- पायानसूयादिविरोधिनः प्रतिपादयितुमुपक्रमते-यस्येदमिति । यस्य चित्तस्य व्युत्थि तस्येदं परिकर्मेत्यर्थः । मैत्री करुणेत्यादिप्रसादनान्तम् सूत्रम् | सुखितेषु मैत्रीं सौहार्द भावयत ईर्ष्याकालुष्यं निवर्तते चित्तस्य । दुःखितेषु च करुणामात्मनीव परस्मिंन्दुःखप्रहाणेच्छां भावयतः परापकारचिकीर्षाकालुष्यं चेतसो निवर्तते । पुण्यशीलेषु प्राणिषु मुदितां हर्ष भावयतोऽसूयाकालुष्यं चेतसो निवर्तते । अपुण्य- शीलेषु चोपेक्षां माध्यस्थ्यं भावयतोऽमर्षकालुष्यं चेतसो निवर्तते । ततश्चास्य राजसतामसधर्मनिवृत्तौ सात्त्विकः शुक्लो धर्म उपजायते । सत्त्वोत्कर्षसंपन्नः सम्भवति, वृत्तिनिरोधपक्षे तस्य प्रसादस्वाभाव्याच्चित्तं प्रसीदति । प्रसन्नं च वृक्ष्यमाणेम्य उपायेभ्य एकाग्रं स्थितिपदं लभते । असत्यां पुनमैत्र्यादिभावनायां न त उपायाः स्थित्यै कल्पन्त इति ॥ ३३ ॥ १५. तानिदान स्थित्युपायानाह-प्रच्छर्दनविधारणाभ्यां वा प्राणस्य । वाशब्दो वक्ष्यमाणोपायान्तरापेक्षो विकल्पगर्थः, न मैच्यादिभावनापेक्षया । तया सह समुच्यात् । प्रच्छर्दनं विवृणोति- कौष्टयस्येति । प्रयत्नविशेषाद्योग- शास्त्रविहिताद्येन कौष्ठन्यो वायुर्नासिकापुटाभ्यां शनै रेच्यते । विधारणं विट्ट- 22501-