वाचस्पतिकृतटीकायुतव्यासमाष्यसमेतम् [पा. १सू. २३ मृदूपायो सध्योपायोऽधिमान्त्रोपाय इति । तत्र मृदूपायोऽपि त्रिविधः - मृदुसंवेगो मध्यसंवेगस्तीत्रसंवेग इति । तथा मध्योपायस्तथाधिमात्रोपाय इति । तत्राधिमात्रोपायानां- तीव्रसंवेगानामासन्नः ॥ २१ ॥ समाधिलाभः समाधिफलं च भवतीति ॥ १ ॥ मृदुमध्याघिमात्रत्वात्ततोऽपि विशेषः ॥ २२ ॥ मृदुतीव्रो मध्यतीत्रोऽधिमात्रतीत्र इति, ततोऽपि विशेषः । तद्विशेषान्मृदु तीव्रसंवेगस्यासन्नस्ततो मध्यतीव्रसंवेगस्यासन्नतरस्तस्मादधि मात्र तीव्र संवेग- स्याधिमात्रोपायस्यासन्नतमः समाधिलाभः समाधिफलं चेति ॥ २२ ॥ किमेतस्मादेवासन्नतरः समाधिर्भवति । अथास्य लाभे भवत्यन्योऽपि कश्चिदुपायो न वेति- ईश्वरप्रणिधानाद्वा ॥ २३ ॥ प्रणिधानाद्भक्तिविशेषादावर्जित ईश्वरस्तमनुगृह्णात्यभिध्यानमात्रेण । तदभिध्यानमात्रादपि योगिन आसन्नतरः समाधिलाभः समाधिफलं च भवतीति ।। २३ ।। अथ प्रधानपुरुषव्यतिरिक्तः कोऽयमीश्वरो नामेति ? श्रद्धादयो मृदुमध्याधिमात्राः प्राग्भवीयसंस्कारादृष्टवशाद्यषां ते तथोक्ताः। संवेगो वैराग्यं तस्यापि मृदुमध्यतीव्रता प्राग्भवीयवासनादृष्टवशादेवेति तेषु यादृशां क्षेपीयसी सिद्धिस्तान्दर्शयति सूत्रेण - तीसंवेगानामासन्न इति सूत्रम् | शेषं भाष्यम् । समाधेः संप्रज्ञातस्य फलमसंप्रज्ञातस्तस्यापि कैवल्यम् ॥ २१ ॥ विशेषः । निंगदव्याख्यातेन भाष्येण मृदुमध्याधिमात्रत्वात्ततोऽपि व्याख्यातमिति ॥ २२ ॥ सूत्रान्तरं पातयितुं विमृशति – किमेतस्मादेवेति । नवाशब्दः संशयनि- वर्तकः । ईश्वरप्रणिधानाद्वा । व्याचष्टे - प्रणिधानाद्भक्तिविशेषान्मानसा- द्वाचिकात्कायिकाद्वावर्जितोऽभिमुखीकृतस्तमनुगृह्णाति । अभिध्यानमनागता- र्थेच्छा – इदमस्याभिमतमस्त्विति । तन्मात्रेण न व्यापारान्तरेण । शेषं सुगमम् ॥ २३ ॥ ननु चेतनाचेतनाभ्यामेव व्यूढं नान्येन विश्वम् । ईश्वरश्चेदचेतनस्तर्हि प्रधानम् । प्रधानविकाराणामपि प्रधानमध्यपातात् । तथा च न तस्यावर्जनम्, अचेतनत्वात् । अथ चेतनस्तथापि चितिशक्तेरौदासीन्यादसंसारितया चास्मितादिविरहात्कृत आवर्जनं कुतश्चाभिध्यानमित्याशयवानाह-अथ प्रधानेति । अत्र सूत्रेणोत्तर-
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१३०
दिखावट