पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा. १सू. २० ] पातञ्जलयोगसूत्रम् २२ श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ २० ॥ उपायप्रत्ययो योगिनां भवति । श्रद्धा चेतसः संप्रसादः । सा हि जननीव कल्याणी योगिनं पाति । तस्य हि श्रद्दधानस्य विवेकार्थिनो वीर्यमुपजायते । समुपजातवीर्यस्य स्मृतिरुपतिष्ठते । स्मृत्युपस्थाने च चित्तमनाकुलं समा- धीयते । समाहितचित्तस्य प्रज्ञाविवेक उपावर्तते, येन यथार्थं वस्तु जानाति। तदद्भ्यासात्तद्विषयाच्च वैराग्यादसंप्रज्ञातः समाधिर्भवति ।। २० ।। ते खलु नत्र योगिनो मृदुमध्याधिमात्रोपाया भवन्ति । तद्यथा- तिपाते मृद्भावमुपगतो मण्डूकदेहः पुनरम्भोदवारिधारा वसेकान्मण्डूकदेहभावम- नुभवतीति । तथा च वायुप्रोक्तम्- “सहस्रं त्वाभिमानिकाः। बौद्धा दश सहस्राणि तिष्ठन्ति विगतज्वराः || पूर्ण शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः। पुरुषं निर्गुणं प्राप्य कालसंख्या न विद्यते ॥” इति । तदस्य पुनर्भवप्राप्तिहेतुतया हेयत्वं सिद्धम् ॥ १६ ॥ - योगिनां तु समावेरुपायक्रममाह - श्रद्धा वीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ।' नन्विन्द्रियादिचिन्तका अपि श्रद्धावन्त एवेत्यत आह - श्रद्धा चेतसः संप्रसादः । स चागमानुमानाचार्योपदेशसमधिगततत्त्व विषयों भवति हि चेतसः संप्रसादोऽभिरुचिरतीच्छा श्रद्धा नेन्द्रियादिष्वात्माभिमानि- नामभिरुचिरसंप्रसादो हि स व्यामोहमूलत्वादित्यर्थः । कुतोऽसावेव श्रद्धेत्यत आह—सा हि जननीव कल्याणी योगिनं पाति विमार्गपातजन्मनोऽनर्थात् । सोऽयमिच्छाविशेष इष्यमाणविषयं प्रयत्नं प्रसून इत्याह - तस्य हि श्रद्दधा- नस्य । तस्य विवरणं—विवेकार्थिनो वीर्यमुपजायते । स्मृतिर्ध्यानम् । अना- कुलम विक्षिप्तम् । समाधीयते योगाङ्गसमाधियुक्तं भवति । यमनियमादि नान्तरीयकसमाध्युपन्यासेन च यमनियमादयोऽपि सूचिताः । तदेवमखिलयोगाङ्ग- संपन्नस्य संप्रज्ञातो जायत इत्याह -- समाहितचित्तस्येति । प्रज्ञाया विवेकः प्रकर्ष उपजायते । संप्रज्ञातपूर्व मसंप्रज्ञातोत्पादमाह- तदभ्यासात् तत्रैव तत्तद्भूमि- प्राप्तौ तद्विषयाच्च वैराग्यादसंप्रज्ञातः समाधिर्भवति । स हि कैवल्य हेतुः। सत्त्वपुरुषान्यताख्यातिंपूर्वी हि निरोधश्चित्तमखिलकार्यकरणेन चरितार्थ- मधिकारादवसादयति ॥ २० ॥ ननु श्रद्धादयश्चेद्योगोपायास्तर्हि सर्वेषामविशेषेण समाधितत्फले स्याताम् । दृश्यते तु कस्यचित्सिद्धिः कस्यचिदसिद्धिः कस्यचिच्चिरेण सिद्धिः कस्यचिच्चि- रतरेण कस्यचित्क्षिप्रमित्यत आह—ते खलु नव योगिन इति । उपायः