पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा. १ सू. २ ] पातञ्जलयोगसूत्रम् तस्य लक्षणाभिधित्सयेदं सूत्रं प्रववृते- योगश्चित्तवृत्तिनिरोधः ॥ २ ॥ सर्वशब्दाग्रहणात्संप्रज्ञातोऽपि योग इत्याख्यायते । चित्तं हि प्रख्याप्रवृ- त्तिस्थितिशीलत्वात्त्रिगुणम् । प्रख्यारूपं हि चित्तसत्त्वं रजस्तमोभ्यां संसृष्टमैश्वर्यविषयप्रियं भवति । तदेव तमसानुविद्धमधर्माज्ञानावैराग्यानैश्वर्योपगं भवति। तदेव प्रक्षीण- समाप्ता या मधुमत्यादयो भूमयस्ताः सर्वास्तासु विदितः सार्वभौम इति सिद्धम् ॥ १ ॥ द्वितीयं.सूत्रमवतारयति–तस्य लक्षणेति । तस्येति पूर्वसूत्रोपात्तं द्विविधं योगं परामृशति । योगश्चित्तवृत्तिनिरोधः । निरुध्यन्ते यस्मिन्प्रमाणादि- वृत्तयोऽवस्थाविशेषे चित्तस्य सोऽवस्थाविशेषो योगः । ननु संप्रज्ञातस्य योगस्या- व्यापकत्वादलक्षणमिदम् । अनिरुद्धा हि तत्र सात्त्विकी चित्तवृत्तिरित्यत आह- सर्वशब्दाग्रहणादिति । यदि सर्वचित्तवृत्तिनिरोध इत्युच्येत भवेदव्यापकं संप्रज्ञातस्य । क्लेशकर्मविपाकाशयपरिपन्थी चित्तवृत्तिनिरोधस्तु तमपि संगृह्णाति । तत्रापि राजसतामसचित्तवृत्तिनिरोधात्तस्य च तद्भावादित्यर्थः । कुतः पुनरेकस्य चित्तस्य क्षिप्तादिभूमिसंबन्धः किमर्थं चैवमवस्थस्य चित्तस्य वृत्तयो निरोद्धव्या इत्याशङ्कय प्रथमं तावदवस्थासंबन्ध हेतु मुपन्यस्यति – चित्तं हीति । प्रख्या- शीलत्वात्सत्त्वगुणम् । प्रवृत्तिशीलत्वाद्रजोगुणम् । स्थितिशीलत्वात्तमोगुणम् । प्रख्याग्रहणमुपलक्षणार्थम् । तेनान्येऽपि सात्त्विकाः प्रसादलाघवप्रीत्यादयः सूच्य न्ते । प्रवृत्त्या च परितापशोकादयो राजसाः । प्रवृत्तिविरोधी तमोवृत्तिधर्मः स्थितिः । स्थितिग्रहणाद्गौरवावरणदैन्यादय उपलक्ष्यन्ते । एतदुक्तं भवति– एकमपि चित्तं त्रिगुणनिर्मिततया गुणानां च वैषम्येण परस्परविमर्दवैचित्र्या- द्विचित्रपरिमाणं सदनेकावस्थमुपपद्यत इति । क्षिताद्या एव चित्तस्य भूमीर्यथासंभव मवान्तरावस्थामेदवतीरादर्शयति- प्रख्यारूपं हीति । चित्तरूपेण परिणतं सत्त्वं चित्तसत्त्वम् । तदेवं प्रख्यारूपतया सत्त्वप्राधान्यं चित्तस्य दर्शितम् । तत्र चित्ते सत्त्वात्किञ्चिदूने रजस्तमसी यदा मिथः समे च भवतस्तदैश्वर्यं च विषयाश्च शब्दादयस्तान्येव प्रियाणि यस्य तत्तथोक्तम् । सत्त्वप्राधान्यात्खलु चित्तं तत्त्वे प्रणिधित्सदपि तत्त्वस्य तमसा- पिहितत्वादणिमादिकमैश्वर्यमेव तत्त्वमभिमन्यमानं तत्प्रणिधित्सति प्रणिधत्ते च क्षणम् । अथ रजसा क्षिप्यमाणं तत्राप्यलब्धस्थिति विशेषात्तत्प्रियमात्रं भवति । शब्दादिषु पुनरस्य स्वरसवाही प्रेमा निरूढ एव । तदनेन विक्षिप्तं चित्तमुक्तम् । क्षिप्तं चित्तं दर्शयन्मूढमपि सूचयति-तदेव तमसेति । यदा