वाचस्पतिकृनटीकायुतव्यासभाष्यसमेतम् [पा. १सू. १ चित्तस्य भूमयः । तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न योग- पक्षे वर्तते । यस्त्वेकाग्रे चेतसि सद्भुतमर्थं प्रद्योतयति क्षिणोति च क्लेशान्क- संबन्धनानि श्लथयति निरोधमभिमुखं करोति स संप्रज्ञातो योग इत्या- ख्यायते । स च वितर्कानुगतो विचारानुगत आनन्दानुगतीऽस्मितानुगत इत्युपरिष्टात्प्रवेदयिष्यामः । सर्ववृत्तिनिरोधे त्वसंप्रज्ञातः समाधिः ॥ १ ॥ क्षिप्तं सदैव रजसा तेषु तेषु विषयेषु क्षिप्यमाणमत्यन्तमस्थिरम् । मूढं तु तमः- समुद्रेकान्निद्रावृत्तिमत् । क्षिप्ताद्विशिष्टं विक्षिप्तम् । विशेषो स्थेमबहुलस्य कादा- चित्कः स्थेमा । सा चास्यास्थेमबहुलता सांसिद्धिकी वा वक्ष्यमाणव्याधिस्त्या- नाद्यन्तरायजनिता वा एकाग्रमेकतानम् । निरुद्धसकलवृत्तिकं संस्कारमात्र- शेषं चित्तं निरुद्धम् । तत्र क्षिप्तमूढयोः सत्यपि परस्परापेक्षया वृत्तिनिरोधे पारम्पयणापि निःश्रेयसहेतुभावाभावात्तद्रूपघातकत्वाच्च योगपक्षाद्दूरोत्सारित- त्वमिति न तयोर्योगत्वं निषिद्धम् । विक्षिप्तस्य तु कादाचित्कसद्भूतविषयस्थे- मशालिनः संभाव्येत योगत्वमिति निषेधति । तत्र विक्षिप्ते चेतसि समाधिः कादाचित्कः सद्भूतविषयश्चित्तस्य स्थेमा न योगपक्षे वर्तते । कस्मात्, यतस्त- द्विपक्षविक्षेपोपसर्जनीभूतः । विपक्षवर्गान्तर्गतस्य हि स्वरूपमेव दुर्लभं प्रागेव कार्यकरणम् । न खलु दहनान्तर्गतं बीजं त्रिचतुरक्षणावस्थितमुप्तमप्यङ्कुराय कल्पत इति भावः । । यदि विक्षेपोपसर्जनीभूतः समाधिर्न योगः कस्तहींत्यत आह -यस्त्वेकाग्रे चेतसीति । भूतमिति समारोपितमर्थं निवर्तयति । निद्रावृत्तिरपि स्वालम्बने तमसि भूते भवत्येकाग्रेत्यंत उक्तम्- सदिति । शोभनं नितान्ताविर्भूतं सत्त्वम् । तमः समुद्रे कस्त्वशोभनस्तस्य क्लेशहेतुत्वादिति । द्योतनं हि तत्त्वज्ञानमागमाद्वा- नुमानाद्वा भवदपि परोक्षरूपतया न साक्षात्कारवतीमविद्यामुच्छिनत्ति द्विचन्द्र- दिङ्योहादिष्वनुच्छेदकत्वादत आह–प्रेति । प्रशब्दो हि प्रकर्षं द्योतयन्साक्षा- त्कारं सूचयति । अविद्यामूलत्वादस्मितादीनां क्लेशानां, विद्यायाश्चाविद्योच्छेद- रूपत्वाद्विद्योदये चाविद्यादिक्लेशसमुच्छेदो विरोधित्वात्कारणविनाशाच्चेत्याह- क्षिणोति चेति । अत एव कर्मरूपाणि बन्धनानि श्लथयति । कर्म चात्रापूर्वम- भिमतं कार्ये कारणोपचारात् । श्लथयति स्वकार्यादवसादयति । वक्ष्यति हि 'सति मूले तद्विपाकः' ( २ | १३ ) इति । किं च निरोधमभिमुखं करोत्यभिमुखी- करोति । स च संप्रज्ञातश्चतुष्प्रकार इत्याह–स चेति । असंप्रज्ञातमाह- सर्ववृत्तीति । रजस्तमोमयी किल प्रमाणादिवृत्तिः सात्त्विकीं वृत्तिमुपादाय संप्र- ज्ञाते निरुद्धा । असंप्रज्ञाते तु सर्वासामेव निरोध इत्यर्थः । तदिह भूमिद्वये
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/११०
दिखावट