बुद्धिः । तस्याश्च विषयो गवादिर्घटादिर्वा ज्ञातश्चाज्ञातश्चेति परि-
णामित्वं दर्शयति ।
- सदाज्ञातविषयत्वं तु पुरुषस्यापरिणामित्वं परिदीपयति ।
कस्मात् । नहि बुद्धिश्च नाम पुरुषविषयश्च स्योदगृहीतौ गृहीता
चेति सिद्धं पुरुषस्य सदाज्ञातविषयत्वं ततश्चापरिणामित्वमिति ।
किं च परार्था बुद्धिः संहत्यकारित्वात्, स्वार्थः पुरुष इति । तथा
सर्वार्थाध्यवसायकत्वात्रिगुणा बुद्धिस्त्रिगुणत्वादचेतनेति । गुणानां
तूपद्रष्टा पुरुष इत्यतो न सरूपः ।
अस्तु तर्हि विरूप इति । नात्यन्तं विरूपः । कस्मात्, शुद्धोऽप्यसौ
कदाचिदेव तदाकारतां दधती परिणामिनीति । प्रयोगश्च भवति-बुद्धिः परिणामिनी
ज्ञाताज्ञातविषयत्वाच्छ्रोत्रादिवदिति ।
तद्वैधम्यं पुरुषस्य तद्विपरीतादेतोः सिध्यतीत्याह-सदेति । स्थादेतत् । सदाज्ञात-
विषयश्चेत्पुरुषो न तर्हि केवली स्यादित्याशयवान्पृच्छति--कस्मादिति । उत्तरम्-न
हि बुद्धिश्च नामेति । बुधग्रहणयोरस्ति सहसंभवो निरोधावस्थायामत उक्त विरोध.
सूचनाय पुरुषविषयश्चेति । तेनाऽऽद्यश्वकारो बुद्धिं विषयत्वेन समुच्चिनोति । पारशिष्टौ
तु विरोधद्योतको चकाराविति । प्रयोगस्तु पुरुषोऽपरिणामी सदासंप्रज्ञातव्युत्थानावस्थयो-
तिविषयत्वात् । यस्तु परिणामी नासौ सदाशातविषयो यथा श्रोत्रादिरिति व्यतिरेको
हेतुः । अपरमपि वैधय॑माह-किं च परार्थेति । बुद्धिः खलु क्लेशकर्मवासोंदिभिर्वि-
पयेन्द्रियादिभिश्च संहत्य पुरुषार्थमभिनिवर्तयन्ती परार्था । प्रयोगश्च परार्था बुद्धिः संह-
त्यकारित्वाच्छयनासनोभ्यङ्गवदिति । पुरुषस्तु न तथे याह--स्वार्थः पुरुष इति । सो
पुरुषाय कल्पते । पुरुषस्तु न कस्मैचिदित्यर्थः । वैवान्तरमाह -सर्वेति । सर्वाना.
शान्तघोरमूढांस्तदाकारपरिणता बुद्धिरध्यवस्यति सत्वरजस्तमसां चैते परिणामा इति
सिद्धा त्रिगुणा बुद्धिरिति । न चैवं पुरुष इत्याह-गुणानामिति । तत्प्रतिविम्बितः
पश्यति न तु तदाकारपरिणत इत्यर्थः । उपसंहरति-अत इति ।
अस्तु तर्हि विरूप इति । नात्यन्तं विरूपः कस्माद्यतः शुद्धोऽपि
१ क. ख. विश्व शाताज्ञात । व. ह. च. छ. 'दिति । २ ग. स्याग्रहीताऽग्रहीता
1३ प. ड. °ता । ४ क, नाभि । ५ ख. च. नाद्यः ।
पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/९२
एतत् पृष्ठम् परिष्कृतम् अस्ति
८८
[२ साधनपादे
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि