पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
right
पातञ्जलयोगसूत्राणि ।

सू० २४ ] पातञ्जलयोगसूत्राणि । योऽसौ प्रकृष्टसत्त्वोपादानादीश्वरस्य शाश्वतिक उत्कर्षः स किं सनिमित्त आहोस्विन्निनिमित्त इति । तस्य शास्त्रं निमित्तम् । शास्त्रं पुनः किंनिमित्तं, प्रकृष्टसत्त्वनिमित्तम् । अत्र पृच्छति-योऽसाविति । ज्ञानक्रिये हि न चिच्छक्तेरपरिणामिन्याः संभवत इति रजस्तमोरहितविशुद्धचित्तसत्त्वाश्रये वक्तव्ये । न चेश्वरस्य सदा मुक्तस्याविद्याप्रभवचित्तसत्त्वसमुत्कर्षेण सह स्वस्वाभिभावः संबन्धः संभवतीत्यत उक्तं--प्रकृष्ट- सत्त्वोपादानादिति । नेश्वरस्य पृथग्जनस्येवा विद्यानिबन्धनश्चित्तसत्त्वेन स्वस्वामिभावः । किं तु तापत्रयपरीतान्प्रेत्यभावमहार्णवाज्जन्तूनुद्वरिष्यामि ज्ञानधर्मोपदेशेन । न च ज्ञानक्रियासामर्थ्यातिशयसंपत्तिमन्तरेण तदुपदेशः । न चेयमपहतरजस्तमोमलविशुद्धसत्त्वोपादानं विनेत्यालोच्य सत्त्वप्रकर्षमुपादत्ते भगवानपरामृष्टोऽप्य- विद्यया । अविद्याभिमानी चाविद्यायास्तत्त्वमविद्वान्भवति न पुनरविद्यामविद्यात्वेन सेवमानः । न खलु शैलूषो रामत्वमारोप्य तास्ताश्चेष्टा दर्शयन्भ्रान्तो भवति । तदिदमाहार्यमस्य रूपं न तात्त्विकमिति । स्यादेतत् । उद्दिवीर्षया भगवता सत्त्वमुपादेयं तदुपादानेन च तदुद्दिधार्षा, अस्या अपि प्राकृतत्वात्तथा चान्योन्याश्रय इत्यत उक्तम्-शाश्वतिक इति । भवेदेतदेवं यदीदंप्रथमता सर्गस्य भवेदनादौ तु सर्गसंहारप्रबन्धे सर्गान्तरसमुत्पन्नसंजिहीर्षावधिसमये पूर्णे मया सत्वप्रकर्ष उपादेय इति प्रणिधानं कृत्वा भगवाञ्जगत्संजहार । तदा चेश्वरचित्तसत्त्वं प्रणिधानवासितं प्रधानसाम्यमुपगतमपि परिपूर्णे महाप्रलयावधौ प्रणिधानवासनावशात्तथैवेश्वरचित्तसत्वभावेन परिणमते । यथा चैत्रः श्वः प्रातरेवोत्थातव्यं मयेति प्रणिधाय सुप्तस्तदैवोत्तिष्ठति प्रणिधानसंस्कारात् । तस्मादनादित्वादीश्वरप्रणिधानसत्त्वोपादानयाः शाश्वतिकत्वेन नान्योन्याश्रयः । न चेश्वरस्य चित्तसत्त्वं महाप्रलयेऽपि न प्रकृतिसाम्यमुपैतीति वाच्यम् । यस्य हि न कदाचिदपि प्रधानसाम्यं न तत्प्राधानिकं नापि चितिशक्तिरज्ञत्वादित्यर्थान्तरमप्रामाणिकमापद्येत । तच्चायुक्तं, प्रकृतिपुरुषव्यतिरेकेणार्थान्तराभावात् । सोऽयमीदश ईश्वरस्य शाश्वतिक उत्कर्षः । स किं सनिमित्तः सप्रमाणक आहोस्विन्निर्निमित्तो निष्प्रमाणक इति । उत्तरं-तस्य शास्त्रं निमित्तम् । श्रुतिस्मृतीतिहासपुराणानि शास्त्रम् । चोदयति-शास्त्रं पुनः किंनिमित्तम् । प्रत्यक्षानुमानपूर्व हि शास्त्रम् । न चेश्वरस्य सत्वप्रकर्षे कस्यचित्प्रत्यक्षमनुमानं वाऽस्ति । न चेश्वरप्रत्यक्षप्रभवं शास्त्रमिति युक्तम् । कल्पयित्वाऽपि ह्ययं ब्रूयादात्मैश्वर्यप्रकाशनायेति भावः । परिहरति-प्रकृष्टसत्त्वनिमित्तम् । १ ख. झ. 'वश्चित्त । २ क. र्णवमग्राञ्जनानु ।