पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सू, २२-२४] पातञ्जलयोगसूत्राणि । मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥ २२ ॥ मृदुतीब्रो मध्यतीव्रोऽधिमानतीन इति । सतोऽपि विशेषः । तद्विशेषोदेपि मृदुतीत्रसंवेगस्याऽऽसन्नः, ततो मध्यतीसंवेग- स्याऽऽसन्नतरः, तस्मादधिमात्रतीव्र संवेगस्पाधिमात्रोपायस्याप्या- सन्नतमः समाधिलाभः समाधिफलं चेति ।। २२ ॥ किमेतस्मादेवाऽऽसन्नतैमः समाधिर्भवति । अथास्य लाभे भव. त्यन्योऽपि कश्चिदुपायो न वेति-- ईश्वरप्रणिधानाद्वा ॥ २३ ॥ प्रणिधानाद्भक्तिविशेषादावर्जित ईश्वरस्तमनुगृह्णात्यभिध्यान- मात्रेण । तदभिध्यानमात्रादपि योगिन आसन्नतेमः समाधि- लाभः समाधिफलं च भवतीति ॥ २३ ॥ अथ प्रधानपुरुषव्यतिरिक्तः कोऽयमीश्वरो नामेति --- क्लेशकर्मविपाकाशयैरपरामष्टः पुरुषविशेष इश्वरः ॥ २४ ॥ मृदुमध्याधिमात्रत्वाचतोऽपि विशेषः । निगदव्याख्यातेन भाष्येण व्याख्यात. मिति ॥ २२ ॥ __सूत्रान्तरं पातयितुं विमृशति-किमेतस्मादेवेति । न वाशब्दः संशयनिवर्तकः । ईश्वरप्रणिधानाद्वा । ध्याचष्टे---प्रणिधानाभक्तिविशेषान्मानसाद्वाचिकांत्कायिकाद्वाऽऽ. चर्जितोऽभिमुर्ख कृतस्तमनुगृह्णाति । अभिध्यानमनागतार्येच्छा-इदमस्याभिमतमस्त्विति । तन्मात्रेण न व्यापारान्तरेण । शेषं मुगमम् ।। २३ ॥ ननु चेतनाचेतनाभ्यामेव व्यूढं नान्येन विश्वम् । ईश्वरश्चेदचेतनस्तह्रि प्रधानं प्रधानविकारणामति प्रधानमध्यपातात्तथा च न तस्याऽऽवर्जनमचेतनवादथ चेतनस्त. थाऽपि चितिशक्तेरौदासीन्यादसंसारितया चास्मितादिविरहात्कुत आवर्जनम् । कुनश्चाभिः ध्यानमित्याशयवानाह-अथ प्रधानेति । अत्र सूत्रेणोत्तरमाह-क्लेशकर्मविपाका. शयैरपरामृष्टः पुरुषविशेष ईश्वरः । अविद्यादयः क्लेशाः क्लिश्नन्ति खल्ममी पुरुषं १ ग. प. 5. षान्मृदु । २ क स्व. च. छ. दप्यास भतरस्तीबाधिसिगस्याधिमात्रो. पायस्य सना। ३ क. ख च. "तरः स । ४ ख. म य. ६. च ध्यानाद। ५ क. स. प. . . तरः स । ६स.